________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराये
1
इति वदन्नेव नष्टः सः बाढ़ पीडितो वराहः । अत्रान्तरे स्वयमागतो राजा । राज्ञोक्तम् मा स्म शोचीः, भवस्थितिरियं विद्वन् ।। तदा जिनभक्तेन राजमन्त्रिणैकेन भणितम् — ते आचार्या नवा याताः सन्ति यैर्डिम्भस्य सप्ताहमात्रमायुरभाणि ते सङ्गतवाचो महात्मानः । केनापि दर्शिता भद्रबाहवः, एते ते; तदा द्विजस्तथा दूनो यथा स एव विवेद । गतो राजाऽपि, भद्रबाहुरपि, लोकोऽपि स्वस्थानम् । राजा श्रावकधर्मं प्रतिपेदे । वराहोऽपमानाद् भागवती दीक्षां गृहीत्वाऽज्ञानकष्टानि महान्ति कृत्वा जैन - धर्मद्वेषी दुष्टो व्यन्तरोऽभूत् । ऋषिषु द्वेषवानपि न प्रबभूव । तपो हि वज्रपञ्जरप्रायं महामुनीनां परप्रेरितप्रत्यूहपृषत्कदुर्भेदतरम् । अतः १० श्रावकानुपद्रो तुमारेभे । गृहे गृहे रोगानुत्पादयामास । श्रावकै पीडामद्रबाहुरादरेण विज्ञप्तः — भगवन् ! भवति सत्यपि यद् वयं रुग्भिः पीड्यामहे, तत् सत्यमिदम् - कुञ्जरस्कन्धाधिरूढोऽपि भषणैर्भक्ष्य(ष्य ?) ते इति ? | गुरुभिरभाणि मा भैष्ट, सोऽयं वराहमिह (हि)र: पूर्ववैशद् भवद्भयो दुधुक्षति | रक्षामि पाणेरपि वज्रपाणेः । ततः १५ पूर्वेभ्य उद्धृत्य ' उवसग्गहरं पासम् ' इत्यादि स्तवनं गाथापश्चकमयं सन्दहमे गुरुभिः । पठितं च 'तल्लोकैः । सद्यः शान्ति गताः केशाः । अद्यापि कष्टापहारार्थिभिस्तत् पठ्यमानमास्ते । अचिन्त्य - चिन्तामणिप्रतिमं च तत् । श्रीभद्रबाहूनां विद्योपजीवी चतुर्दशपूर्वी श्री स्थूलभद्रः परमतान्यचुचूर्णत् ।
इति श्रीभद्रबाहुवराहप्रबन्धः प्रथमः ॥ प्र० १२२ ॥
-
१ ख- 'बराइचरः' । २ ख- 'तो' ।
२०