________________
चतुर्विंशतिप्रबन्धे [ १ श्रीभद्रबाहु वराह
प्रेमीतो बालः । रुवते वराहगृहे । मिलितो लोकः । भद्रबाहुनाऽपि श्रावका उक्ताः-- शोकापनोदो धर्माचार्य इति तत्रास्माभिरधुना गन्तव्यम् । श्रावकशतावृता गतास्तत्राचार्याः । वराहः शोकसङ्कुलोऽप्यभ्युत्थानाद्युचितमकरोत् अभ्यदधाच्च - आचार्याः ! भवतां ज्ञानं मिलितम्, केवलं बिडालीतो मृत्युर्न किन्त्वर्गलातः । भद्रबाहुना निजगदे - तस्या अर्गलाया लोहमय्या अग्रभागे रेखामयी बिडाल्यस्ति, नासत्यं ब्रूमः । औनीताऽवलोकिताऽर्गला तथैवास्ते, अथोवाच वराहः -- तथा पुत्रशोकेन न खिद्येऽहं यथा राजविदिताख्यात पुत्रशतायुस्त्ववैफल्येन खिधे। धिगमीषां निजपुस्तकानां १० प्रत्ययेनास्माभिर्ज्ञानं प्राकाशि, एतान्यसत्यानि, तस्मान्मृज्मः । इत्युक्त्वा कुण्डानि जलैरपूपुरत् । पुस्तकानि मार्छु स यावदारभते तावद् भद्रबाहुना बाहुना धृत्वा वारितः । आत्मप्रमादेन ज्ञानं विनाश्य कथं पुस्तकेभ्यः कुप्यसि । एते पुस्तकाः सर्वज्ञोक्तमेव भाषन्ते, ज्ञाता तु दुर्लभः । अमुकस्मिन् स्थाने त्वं विपर्यस्तमति जीत:, १५ आत्मानमेव निन्द |
प्रभुप्रसादस्तारुण्यं, विभवो रूपमन्वयः ।
५
शौर्य पाण्डित्यमित्येत -- दमघं मदकारणम् ॥ १ ॥ मत्तस्य च कुतो विचार सूक्ष्मेक्षिका: ? । तस्मान्मा भाङ्क्षीः पुस्तकान् इति निषिद्धः । विलक्षीभूय स्थितो वराहः । तत्रान्तरे पूर्वं तत्कृता२० र्हन्मतगर्हापीडितमनसा केनापि श्रावकेण पठितम् — युष्मादृशाः कृपणकाः कृमयोऽपि यस्यां
भान्ति स्म सन्तमसमय्यगमन्निशाऽसौ ।
सूर्याशुदीप्तदशदिदिवसोऽधुनाऽयं
१०
भात्यत्र नेन्दुरपि कीटमणे ! किमु त्वम् ॥ १॥
'अभ्यधाच्च' | ५ क ' आनीयाव०' । मृज्म: । • ग - ' बाहो' । ९ अनुष्टुप् ।
१ ग - 'प्रमृतो । २ ग 'शतवृता' | ३ ख - ' शन्कुसकुलो । ४ क ६ क ' प्रकाशितं । ७ ग- 'तस्मात् तु १० वसन्त० |