________________
२०४
चतुर्विशतिप्रबन्धे [ २३ श्रीआभड. दास्यै कण्ठाभरणम् । स्थालं मौक्तिकैवापितम् । दासी हृष्टा उपराजं वबाज । भोजनादनु आभडः पुत्र्या जगदे-तात ! निष्कासितभाण्डागारिकप्रेरितनृपकर्तव्यमेतत् । मया दास्यै रीढा न कृता । यास्यति श्रीः, परं उपायं कुरु । सर्व स्वधन टिप्पयित्वा राज्ञे दर्शय कथय च-गृहाण स्वामिन् ! यदि ते रुचिरस्ति । तथैव चक्रे सः । नृपो विस्मितो लज्जितो हृष्टश्च । भाण्डागारिक तटे धृत्वा राजोचेरे मूढ ! यस्मै विधिद्रव्यं दत्ते तस्मै तद्रक्षोपायबुद्धिमपि दत्ते । ततो मात्र वृथा मत्सरी स्याः । पुनरेव आभडपादयोर्लगितः सः ।
तृणमपि तत्सत्कं राज्ञा न गृहीतमेव । एवं धनी अखण्डभाग्यः १० चिरायुः नीरक् आभडः मरणावसरे पुत्रोपकाराय स्वसदने
चतुष्कोण्या निधिचतुष्कं न्यास्थत् । मृतः स्वयं समाधिना । चाम्पलाऽपि द्यां गता । पुत्रैर्बाह्ये धने गते सति ते निधयः सम्भालिताः, परं न लभ्यन्ते । अञ्जनं च दापितम् । अञ्जनी भणति
केऽपि श्यामाङ्गा मुद्गरपाणयोऽधोऽधो वनं नयन्ति । किं मुधा १५ क्लिश्यध्वे ? । जाता निराशाः सामान्यवणिजोऽभवन् । तस्मात्
पुरुषाणां पुण्योदय एव धनवृद्धिनिबन्धनं, न कुलम् ।
॥ इत्यामडप्रबन्धः ॥ २३ ॥
१ ग-'चाम्पलदेव्यपि' ।