________________
प्रबन्धः प्रबन्धकोशेत्यपरालये
२०३ वैरादमुं लोकं नवनवभङ्गीमिः कदर्थयिष्यामि । स्वया कस्याप्यर्थे विज्ञप्ति३व करणीया। त्वां तु सत्पुरुषं अहं गुरुबुद्ध्या पूजयिष्यामि । इति जल्पन् मृतः स मीनः यथोक्तो राजा पुरन्दरो नाम समभूत् । विप्रस्तु गुरुः । तं लोकं कृतपरमागसं स राजाऽपीपिडत् । विप्रस्तु तदुक्तं स्मरन् न ऊचे किञ्चित् । तस्माद् भो ग्रामण्योऽहमपि तद्विवः कोऽप्यवतीर्णोऽस्मि | क्रीडया पौडयामि लोकम्, तस्माद् भवद्भिर्न वाच्यम् । वक्ष्यथ चेद् तदा रसनां छेत्स्यामि । एवं श्रुत्वा स्थितस्तूष्णी लोकः । देशोऽयचीयते ।
एवं राज्ये आभडस्तथैव ऋद्धिमान् । आभडस्य च चाम्पलानाम्नी बालविधवा वाग्मिनी उचितज्ञा सर्वशास्त्रविदुरा १० तनया गृहव्यापारान् करोति कारयति । एकदा लोभात् किश्चिच्चोरयन् भाण्डागारिको रुष्टेनाभडेन निष्कासितः। स कोपादुपभीमभूपं गत ऊचे च राजन् ! आभडस्य अनन्ता ऋद्धिः । एवमेवं तां गृहाण । राजाऽऽह- 'कोऽप्यस्याप्यन्यायोऽस्ति ? । भाण्डागारिक ऊचे नास्ति । तर्हि परधनं कथं वृथा गृह्यते ? । भाण्डागारिकः १५ प्राह छल किमपि क्रियते । राजाऽऽह-तथाऽहं करिष्यामि । इति विचार्य भाण्डागारिक खसौध एव स्थापयित्वा छगीमांसं दासीशिरसि स्थालस्थं कृत्वा प्राहैषीत् । आगता सा दासी मध्याहू आभडसदनद्वारम् । तदा आभडो ध्यानेन जिनमर्चयति । 'चाम्पलया खयं द्वारमुदघाटि । दासी मध्यमागता । स्थालं २० दर्शितम् । चाम्पलया मांसं दृष्ट्वा तदैव भाण्डागारिकविक्रिये यमित्यूहाश्चके । मध्ये आनीता सगौरवं सा पृष्टा-किमेतत् ? । दास्याह-राज्ञा उत्सवे गौरवाय वः प्रस्थापितमदः । एतन्मसिं चाम्पलया स्थालान्तरे लातम् । सपादलक्षमूल्यहारो राजेऽर्पितः ।
.. १ ग-'चाम्पलदनाम्नी' । २ क-'न कोपि.' । ३ 'इति विचार्य हत्यधिको ग-पाठः । ४-५ ग- 'चाम्पलदेव्या'।। ६ ग-राला महिणीमोत्सवे' ।