________________
सिद्धान्तलक्षणतत्वालोकः । खिलज्ञानाविरोधितया हेत्वाभासतानुपपत्तेः किन्तु ताशसामानाधिकरण्यात्मकव्यप्तिकारतानिरूपितहेतुतावच्छेदकावच्छिन्नविशेष्यस्वघटितधर्मेणैव तथाच रासभपरामर्षानानुमित्यापत्तिः नचैवमपि रासभे व्याप्यत्वव्यवहारो न वारित इति वच्यं तद्धविच्छिन्ने व्याप्यत्वव्यवहारे तद्धर्मावच्छिन्नव्यापकसामानाधिकरण्यस्यैव प्रयो. जकत्वादित्याशयेनाह नचेत्यादि ॥ "धूमत्वादेस्तत्रप्रवेशे तद्धटितस्यैः वेति" एवकारेण सामानाधिकरण्यमात्रस्य व्यवच्छेदः तथाच सा. मानाधिरण्यमात्रस्य व्याप्तित्ववादिभिस्तदुपपत्तये हेतुव्यापकसाध्यः सामानाधिकरण्यमात्रप्रकारकज्ञानस्य कारणत्वम्वाच्यम् एवञ्च पक्षे धूमदर्शनेऽसति सतिचरासमदर्शने उपनीतधूमव्यापकवह्निसामाना. धिकरण्यप्रकारेण रासभस्य वह्निधूमविरहिणि पक्षे प्रमापरामर्षाद्धमलिङ्गकानुमित्यापत्तिः नचैवं रासभवानितिज्ञानाकारलेखनमसङ्गतमितिवाच्यम् यथाश्रुताभिप्रायेणतल्लेखनात् सामानाधिकरण्यमा. अप्रकारकेत्यनेन तदरिक्तहेतुतावच्छेदकप्रकारत्वस्य कारणतावच्छेदकघटकत्वस्यैव व्यवच्छेदात्तावतैव सामानाधिकरण्यमात्रस्य ध्याप्तित्वसिद्धः नहि ज्ञानेऽतिरिक्तप्रकारकत्वस्य वैफल्यादित्यत्र वा ता. त्पर्यात् नचासिद्धराभासत्वानुपपत्तिः अनुभवसिद्धप्रतिबन्धकत्वान्तरस्यतैरप्यङ्गीकरणादितिभावः। कश्चिदेतद्ग्रन्थस्य धूमव्यापकवह्निसमानाधिकरणधूमवान्पर्वत इतिज्ञानस्यकारणत्वे पक्षधर्माशे सामाना. धिकरण्यधूमत्वोभयोः प्रकारतया व्याप्तित्वेन मदिष्टसिद्धिरित्येतदर्थकतया धूमत्वादिमतितादृशसामानाधिकरण्यमिति दीधिते—मत्व. विशिष्टविशेषणतापन्नसामानाधिकरण्यरुपैकर्मिविशेषणतापन्नसामानाधिकरण्यहेतुतावच्छेदकोभयार्थकतया च व्याख्यानं कुरुते तन्त्र सर्वथा चारु तदुभयोाप्तित्वे हेतुव्यापकसाध्यसमानाधिकरणप्रकृ. तहेतुतावच्छेदकावच्छिन्नवत्ताज्ञानस्यैव कारणत्वप्रसंगेन सत्वस्य गुणे ऽपीत्यादिग्रन्थोऽसङ्गतःस्यादिति, अथ धूमस्वादिमतीत्यादिना लब्धस्य धूमत्वसामानाधिकरण्यापन्नस्य सामानाधिकरण्यसम्बन्धेन धूमत्व. विशिष्टस्य वा सामानाधिकरण्यस्य धूमत्वत्वप्रवेशप्रयुक्तगौरवेण वि. षयितया कारणतानवच्छेदकत्वेप्याधेयतया धूमविशिष्टतादृशसामानाधिकरण्यस्य तत्वन्तात्पर्येणवाच्य न्तदप्यनुपपन्नमवच्छिन्नत्व. सम्बन्धेन धूमत्वविशिष्टस्यैव तस्य तथात्वौचित्याडूमस्याप्रवेशेन
"Aho Shrutgyanam"