________________
सिद्धान्तलक्षणतत्वालोकः ।. सम्बन्धेनेति बोधम् ॥ '. व्यप्तेरैक्सव्यवहार इति तथाचैकाव्याप्तिरित्यत्रैकपदमेकधर्मावच्छिअनिरूपकताकैकधर्मावच्छिन्नानुयोगिताकयरमितिभावः । नन्वेवमि, ति एवं पक्षधमाशे विशेषणतयाऽनुमितिजनकतावच्छेदकत्वरूपव्या. मित्वस्य सामानाधिकरण्यमाने स्वीकारेप्यै क्यव्यवहारोपपादने, इ. त्याशंकायामित्यादि, तथाच सामानाधिकरण्यावच्छिन्न प्रकारकशा. अस्यैवकारणत्वेन तस्यपक्षधर्मे दूशन्तसाधारणे महावाय्वादावुप. चीतसामानाधिकरण्यविषयकत्वेन संभवितया पक्षधर्मधूमादिविषयकपरामर्षस्यासम्भवेऽपि क्षत्यभावेन परामर्षासम्भवशङ्कायाएवानुत्थानास्सिद्धान्ताभिधानमनुचितमिति अत्र यथा तत्सङ्गतिस्तथा तामादाथैवेत्याद्यग्रिमग्रन्थे व्यक्तीभविष्यतीतिभावः। . .. केतित्तु नन्वेवमिति, एवम् एकपदस्यभाक्तैक्यपरत्वे, इत्याशङ्कायातित्यादि, तथाच व्याप्ती भाक्तमेवैक्यव्यवहीयेतचेत्कथं सामान्यप्रत्यासस्यनंगीकारपक्षे व्याप्तिज्ञानासम्भवमाशंक्य व्याप्त्यैक्यमुच्येत तादशैक्पसद्भावेपि व्याप्तिज्ञानासम्भवस्यानुद्धारादिति भावः। अथैवं वस्तुतस्त्वित्यादिग्रन्थेऽनेकस्वरूपसामानाधिकरण्यात्मकन्याप्त्यभिधानं सदे विरुद्धं स्यादिति चेत्सत्यं यद्पविशिष्टसमानाधिकरणेत्यादिना प्रथमं सामानाधिकरण्यमात्रस्य व्याप्तित्वमभिधायैक्यव्यवहार म सत्रकश्चिदुपपाद्य तत्रदूषणपूर्वकं सामान्यलक्षणप्रत्यासत्यंगीकारानङ्गीकारमतभेदेन सिद्धान्तभूतं भाक्तमुख्यपव्यवहारविषयं व्याक्तिदूयं बोधयतो वस्तुतस्वित्यादिग्रन्थस्य नहि सन्दर्भविरोघः एवञ्च सामानाधिकरण्यमात्रव्याप्तिपक्षविशिष्टव्याप्तिपक्षयोः प्रथमे सदोषस्वस्य द्वितीयपक्षाभिधायकग्रन्थ एव व्यक्तत्वास्परमर्षीयसिद्धा. न्तग्रन्थसङ्गतिरूपतग्रन्थाप्रकाशितद्वितीयपक्षानुगुण्यप्रकाशनमात्रतात्पर्यकस्य वन्वेवमित्यादिग्रन्थस्यापि द्वितीयेऽपिपक्षे द्वितीय एवोक्ताजुगुण्यं सर्वथा निर्दोषत्वञ्चेति प्रकटयितुं ननुहे तुनिष्ठेत्याद्यपि वक्ष्यतीति बदन्ति। अनुमितिः स्यादित्यापत्तिरिति, तथाचोक्तसामानाधिकरण्यावच्छिन्नप्रकारकज्ञानत्वरूपकारणतावच्छेदकावच्छिन्नस्य रासमपरामर्षस्थलेऽपि सत्वेन तत्रानुमित्यनुत्पत्यान्वयव्यभिचार इति भावः ।। सामानाधिकरण्यावच्छिन्नप्रकारकज्ञानत्वेन परामर्षस्य न सामानाधिकरण्यमात्र व्याप्तित्वस्वीकारेऽपि कारणता स्वरूपासिद्ध स्ताद्वयनि
"Aho Shrutgyanam"