SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतच्चालाकः । रूपत्वादिमतो ज्ञानस्यति ज्ञानत्वमत्र परिचायकमात्रन्तेन रूपत्व. घज्शानाभावप्रतियागितायां साध्यतावच्छेदकतदितरोभयावच्छिन्न. त्वसत्त्वेऽपि रूपत्ववदभावस्य प्रतियोगितायान्तदसत्त्वान्न क्षतिः समवायान्यसम्वन्धेन भासमानस्थोल्लिख्यमानस्यापि स्वरुपतो भानमङ्गीकृत्याह रूपवानिति अन्यथा रूपत्ववद्वानित्येव ब्रूयात् रूपसाध्यकस्थले तदवच्छेदकतायान्निरवच्छिन्नत्वविरहादिति भावः संयोगेन वह्निसाध्यके विषयितया वह्निववभावस्य यथाश्रुतप्र. तियोगिवैयधिकरण्यावरहात समवायेन साध्यतायामव्याप्त्यनुधा. वनमिति बोध्यम् ॥ अव्याप्तिप्रसङ्गादिति अत्र वदित्वप्रतियोगि. कसमवायेन बह्नित्वविशिष्टसाध्यकस्थलाव्याप्तिप्रसङ्गेन प्रतियोगिवैयधिकरण्यघटकनिरूपकतावच्छेदयतायां साध्यतावच्छेदकताघट. कसम्बन्धावच्छिन्नत्वस्य यथाश्रुतस्य स्ववृत्तिवाच्यत्ववत्त्वसम्ब. न्धावच्छिन्नघटत्वादिनिष्ठावच्छेदकताकनिरूपकताकाधिकरणत्वस्य हेत्वधिकरणे सत्वेन प्रतियोगिव्यधिकरणाभावाप्रसिधा पारिभा. षिकस्य च विवक्षितुमशक्यतया प्रतियोगितावच्छेदकताघटक. सम्वन्धावच्छिन्नत्वमेव निवेशनीयमिति विषयितया रूपत्ववदभा. वस्य प्रतियोगिवैयधिकरण्यसम्भवाव्याप्तिप्रसङ्गादित्यर्थे तात्पर्य मिति ॥०॥ सखण्डस्य स्वरूपतोभानासम्भवमत्युपेत्याह यदिचेति रूपत्वन्यूनवृत्तिजातीति न्यूनवृत्तित्वञ्च स्वसमानाधिकरण त्वे सति स्वसामानाधिकरणभेदप्रतियोगितावच्छेदकत्वम् सामा. नाधिकरण्यञ्च तादृशप्रतियोगितानवच्छेदककर्मत्वसंयोगत्वादेः साध्यतावच्छेदकत्ववारणायोपादेयम् सत्त्वगुणत्वयोस्साध्यतावच्छेदकत्ववारणाय विशेष्यदलम् तयोर्जातित्वानहीकारपक्षे स्वभिन्नत्वमेव वाच्यम् संयोगतद्रूपान्यतरत्वादिवारणाय जातीति तादा. त्म्येन जातिमतस्तादात्म्येन साध्यतायां जातित्वे सत्तान्यजातिमतस्तादात्म्येन साध्यतायां सत्वे च लघुसाध्यकेऽव्याप्त्युपक्षणश्च तादात्म्येन व्याप्यव्यापकभावस्थ सर्वाङ्गीकाराविषयत्वादितिचिन्त्यम् ॥ निरवच्छिन्नावच्छेदकत्वेति एतदभिधानन्तादृशप्रतियो. गितानिरूपितावच्छेदकतायां साव्यतावच्छेदकतावच्छेदकेतरानवच्छिन्नावच्छेदकत्वाभावघटितलक्षणासत्त्वसम्पादनाय तल्लक्षणस्याविशिष्टसाध्यतावच्छेदकस्थलीयत्वादिति स्वन्यूनवृत्तिजात्याश्रयः "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy