________________
सिद्धान्तलक्षणतालोकः ।
मुक्तफलसम्पादकनिरवच्छिन्नत्वात्रेषयित्वस्य कारणतावच्छेदकघटव त्वापेक्षया तादृशानिरूपितत्वविषयस्य तत्त्वे गौरवादिति तङ्घटितस्य विषयितया तादृशानुमितिजनकतावच्छेदकत्वरूप शुद्धसाध्यतावच्छे दकस्थलीयव्याप्तित्वासम्भवः नच विशिष्टसाध्यतावच्छेदकस्थली यव्याप्तित्वनिरवच्छिन्नत्वघटितस्य तद्विषयितायाः कारणतावच्छेदकले लाघवसद्वावेऽपि दण्डादिविधेयतावच्छेदकव्यभिचारलिङ्गकानुमिते रभ्रान्त उत्पत्तिप्रसङ्गरूपप्रतिकूलतर्कस्य सम्भवात् अथ साध्यसाध नभेदेन कार्य्यकारणभावभेदे निरवच्छिन्नावच्छेदकताकविश्रेयता शाल्यनुमितौ लाघवेन निरवच्छिन्नावच्छेदकत्वघटितस्य सावच्छि म्नावच्छेदकत्वक विधेयताशाल्यनुमितौ तादशानिरूपितत्वघटितस्य व वस्तुनो ज्ञानस्य यथा कारणत्वं तथा सलिङ्गकोक्तानुमितिद्वय एव निरवच्छिनत्वघटितव्याप्तिज्ञानस्यासल्लिङ्गिकायाञ्च निरवच्छिन्नविधेयतावच्छेदकताकानुमितौ निरवच्छिन्नत्वघटिताया इतरत्र चोक्तानिरूपितत्वघटिताया व्याप्तेर्ज्ञानस्य कारणत्वकिन्नस्यादिति चे. नैवंसति सल्लिङ्गकानुमितौ साध्यसामानाधिकण्यज्ञानस्यासलिङ्गकानुमितौ व्यापकत्वघटितज्ञानस्य कारणत्वमित्येवकिन्न रोचयेः हन्त लाघवमन्विष्यतो मम महदिदमनिष्टमापादितन्देवानाम्प्रियेणेति चेत्क्लुप्तमात्ररीतिम्बिदुषो न चित्रमेतद्भवति कल्पनाप्रसरः सोऽप्यत्र साध्यैकपरतन्त्रो दृष्टानुसारी च तथा हि वह्निसामानाधिकण्यस्य गमकताप्रयोजकत्वेऽविशेषाद्धूमस्येव रासभस्यापि तेन तत्वङ्कल्पयेन्नह्येषा कल्पना धूमरासभयोः प्राणित्वाप्राणित्वादिरूपलिङ्गवशिष्टघमपेक्षत उभयोरपि गमकतासाम्ये धूमाद्वह्नयनुमितौ समर्था प्रवृ तीरासभेनानुमितौ चासमर्थेति किङ्कताविशेषः स्यात् तत्तद्धेतोर्गमकतायान्तत्तद्धेतुतावच्छेदकावच्छिन्नव्यापकतावच्छेदकावच्छिन्नसामानाधिकरण्यस्य प्रयोजकत्वेऽपि तस्य रासभ इव धूमेऽप्यसत्तया न विशेषकरत्वमिति निरवच्छिन्नत्वघटितस्य तथात्वस्वाच्यन्तस्या. पि वह्नयनुमितिप्रयोजकत्व इव दण्ड्यनुमितिरपि प्रयोजकत्वेऽविशेषाइण्डिसंयोगस्येव संयोगसामान्यस्यापि दण्डिगमकताम्बास्तबिकीङ्कल्पयेद्दष्टानुसारिणीत्वात्कल्पनायाः दण्डिसंयोगस्य सल्लिङ्गत्वमसल्लिङ्गत्वञ्च संयोगासामान्यस्येति दण्डिसंयोगस्य निरवच्छिन्नत्वघटिताव्याप्तिर्णमकताप्रयोजिका संयोगस्य तु दण्डत्वातिरिक्तधर्म्मान
५२
"Aho Shrutgyanam"