________________
सिद्धान्तलक्षणतत्वालोकः ।
वात् नचैवमपि तत्ताविशिष्टदण्डत्वविशिष्टवदभावस्य न वारणमिति वाच्यं स्वानवच्छेदकानवच्छिन्नत्वस्य स्वनिरूपितावच्छेदकताविशिष्ठान्यावच्छेदकतानिरूपितत्वसम्बन्धावच्छिन्न स्वाभाववत्त्वरूपस्य
वाच्यत्वात् एवञ्च निरवच्छिन्नसाध्यतावच्छेदकतायास्स्वावच्छेदे काप्रसिद्धावपि न क्षतिः वैशिष्ट्यं च स्वानवच्छेदकानवच्छिन्नस्वसम्बन्धेन अथ निरवच्छिन्नसाध्यतावच्छेदकतास्थले स्वनिरूपि - तावच्छेदकत्वाप्रासेद्ध्या निरवच्छिन्नसाध्यतावच्छेदकतावच्छेदकता
स्थले स्वनिरूपितावच्छेदकतायास्स्वावच्छेदकाप्रसिद्ध्या चौकस - म्बन्धस्य साध्यतावच्छेदकताव्यधिकरणत्वेन तत्सम्बन्धावच्छिन्नस्वाभाववत्वेन सर्व्वस्य
साध्यतावच्छेदकताविशिष्टत्वादव्याप्तिः
प्रमेयस्य साध्यतावच्छेदकतावच्छेदकतायामवच्छेदकत्वे प्रमेयावच्छिन्नावच्छेदकतायास्स्वानवच्छेद काप्रसिच्या तत्सम्बन्धावच्छिन्न स्वाभावस्य कंवलान्वायत्वात्साध्यतावच्छेदकता विशिष्टान्यावच्छेदकत्वाप्रसिद्धिः निरवच्छिन्न साध्यतावच्छेदकतावच्छेदकतास्थले प्र मेयावच्छिन्नसाध्यतावच्छेदकतावच्छेदकतास्थले च तद्दोषवारणाय स्वानवच्छेदकानवच्छिन्नत्वसम्बन्धेन स्वनिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपितत्व सम्बन्धावच्छिन्न स्वाभाववत्त्वोपादानेऽनवस्थापीतिचेदत्र स्ववृत्तित्वस्य स्वनिरूपितयत्किञ्चिदवच्छेदकत्वावृत्तित्वसम्बन्धावच्छिन्नस्वाभाववत्त्वसम्बन्धावच्छिन्नस्य स्वा नवच्छेदकानवच्छिन्नत्वपदेन वाच्यत्वाददोष इति वयं ब्रूमः अवृतित्वघटक वृत्तित्वं च स्वनिरूपितावच्छेदकतासामानाधिकरण्येन वाच्यनिरूपितत्वञ्च साक्षात्परम्परासाधारणं ग्राह्यं वह्नित्वाश्रयवान्तज्ज्ञा नत्वादित्यत्र वह्नयभावमादायाव्यातेर्व्वारणाय स्वनिरूपितयत्किञ्चिदवच्छदेकत्वावृत्तित्वसम्बन्धावच्छिन्न स्वाभाववत्त्वमपि वैशिष्ट्यघटकत योपादेयं स्ववृत्तित्वस्वानवच्छेदकानवच्छिन्नत्वयास्सर्वत्रैवायमेव निष्क र्षो बोध्यः न चैवं प्रमेयवद्वान्वाच्यत्वादित्यत्र प्रमेयत्वावच्छिन्नावच्छेदकत्वान्यावच्छेदकत्वमात्रस्य विशिष्टान्यत्वादव्याप्तिरिति वाच्यं विशिष्टान्यावच्छेदकतायां स्वसजातीयावच्छेदकतावत्त्वसम्बन्धेन स्वरूपसम्बन्धेन वा साध्यतावच्छेदकताव्यापकत्वस्य वैशिष्ट्यस्य च स्वावच्छेदकसम्बन्धावच्छिन्नत्वगर्भस्योक्तौ दोषाभावात् साव च्छिन्नघटत्वादिनिष्ठावच्छेदकत्वस्यैव विषयित्वाद्यवच्छिन्नप्रमेयत्वा
"Aho Shrutgyanam"