________________
सिद्धान्तलक्षणतत्वालोकः ।
दकताघटकसम्बन्धावच्छिन्नावच्छेदकताकप्रतियोगिताकस्य हेतुसमानाधिकरणात्यन्ताभावस्य न प्रसिद्धिरिति ॥ ० ॥ द्रव्यत्वादिरूपेणेत्यादि अत्र तृतीयाया अवच्छिन्नत्वमर्थः धूम इति सप्तम्यन्तस्य च धूमनिष्टलिङ्गत्वम्वह्निव्याप्यत्वञ्च वह्निविधेयताकानुमितिजनकतायां विषयितयावच्छेद की भूतोधर्म्मः तदेकदेशे ऽनुमितौ द्रव्यत्वावच्छिन्नधूमनिष्टलिङ्गकत्वस्यान्वयः धूमत्वावच्छिन्नलिङ्गताकत्वन्धूम सामान्य इति सप्तम्यन्तार्थः तस्य तत्तद्वह्निव्याप्यत्वशब्दार्थीभूततत्तद्वह्निविधेयताकानुमितिजनकतावच्छेदक घटकानुमिताक्न्वयः उक्तावच्छेदकद्व योश्चेतरभेदानुमित्युद्देश्यतावच्छेदकाभावसम्पादन रूपप्रकृतवारणशव्दार्थाभाव आधेयतासम्बन्धेनान्वयः चतुर्थ्या इच्छाधीनत्वमर्थः विशिष्येत्यस्य विशिष्टमित्यर्थः क्वाप्रत्ययार्थस्याविवक्षितत्वात् वि. शिष्टता च साध्यतावच्छेदकावच्छिन्नविधेयत्वहेतुतावच्छेदकावच्छिन्नलिङ्गताकत्वघटितत्वं लक्ष्यमितरभेदानुमित्युद्देश्यं निर्दिशति बोधयतीत्यर्थः अयमाशयः तद्धर्म्माश्रयनिष्टलिङ्गताकतद्धर्म्माश्रयनि. ष्ठविधेयताकानुमितिजनकतावच्छेदकस्पक्षीकृत्य तद्धर्मावच्छिन्नसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदक तद्धर्मावच्छिन्नसामानाधिकरण्येन हेतुनेतरभेदसाधने धूमत्वाश्रयनिष्टलिङ्गत्तात्वस्य द्रव्यत्वावच्छिन्नलिङ्गतायां वह्नित्वाश्रयनिष्टविधेयतात्वस्य च तत्तद्वह्नि स्वावच्छिन्नविधेयतायां सत्त्वेनोद्देश्यतावच्छेदकस्य द्रव्यत्वावच्छिन्नलिङ्गताकवह्नित्वावच्छिन्न विधेयताकानुमितिजनकतावच्छेदके धूमत्वाव
४३
च्छिन्नलिङ्गताकतद्वह्नित्वावच्छिन्नविधेयताकानुमितिजनकतावच्छेदके च सत्त्वात् तत्र चोक्तावच्छे कद्वये घूमत्वावच्छिन्न सामानाधिकरणाभावप्रतियोगितानवच्छेदकवह्नित्वावच्छिन्न सामानाधिकरण्यविरहा
द्भागासिद्धिस्स्याद्विशिष्यलक्ष्यनिर्देशेचोद्देश्यतावच्छेदकस्य तत्रासत्वेन न भागासिद्व्यवकाशः अथ द्रव्यत्वावच्छिन्नलिङ्गताकवह्नित्वावच्छिन्नविधेयताकानुमितिजनकतावच्छेदकस्याप्रसिद्धतया कथं तदतभीवेण भागासिद्धिः धूमवदनुयोगिक संयोगरूपप्रकृतहेतुतावच्छेदकसम्बन्धावच्छिन्नद्रव्यत्वावच्छिन्नलिङ्गताकतादृशानुमितिजनकता
वच्छेदकस्य प्रसिद्धत्वेऽपि तस्योक्तसामानाधिकरण्याभिन्नत्वेन भा. गासिद्ध्यसम्भव एवेति चेन्न भ्रमप्रमासाधारण्यानुरोधे न हि विषयि तासम्वन्धेन व्याप्तिविशिष्टनिश्चयत्वेन कारणत्वम्परित्यज्य निरू
"Aho Shrutgyanam"