________________
४०
सिद्धान्तलक्षणतत्वालोकः ।
नाधिकरण्योमयसम्बन्धन तथा च महानसीयवाहिमान्तज्ज्ञानत्वादि. त्यत्र नाव्याप्तिरितिति वदन्ति ते च स्ववृत्तित्वघटितसम्वन्धेन वैशिपृथाभिधाने महानसीयवहयभावस्यापि वारणसम्भवन साध्यतावच्छेदकतदितरोभयानवीच्छन्नत्वविशेषणवैफल्यप्रशक्तेः तदनभिधानेन परिहारः स्वसाजात्यस्वमानाधिकरण्यस्वावच्छेदकसम्बन्धाव: च्छिन्नत्वैतत्रितयसम्बन्धेन स्वनिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपितत्वस्य वैशिष्टयघटकत्वाभ्युपगमे महानसीयवह्नि वृत्तित्वविशिष्टजातिमदभावस्य विषयितया रूपत्ववदभावस्य च वा. रणसम्भवानिरवाच्छिन्नत्वसाध्यतावच्छेकताघटकसम्बन्धावच्छिन्न. त्वयोनिरर्थकतान्तदनुक्त्या वारयन्तो जगदीशव्याख्यायामनुग्रहकारि ण इति मन्यामहे अथोक्तविशेषणानामत्रैव तात्पर्य मिति चेत् साध्य. तावच्छेदके ताशप्रतियोगितानवच्छेदकत्वघटितत्वानुपपत्तिः प्रयोजनवशादिष्यत एवेति चेत्प्रकृतानुमितेः पूर्व प्रकृतानुमितिवि. धेयतायाःप्रायसोऽनुपस्थितत्वेन तदूघटितव्याप्तेर्दुग्रहतयाऽनुमितेरनु पपत्तिः व्याप्तिघटकतया वह्नित्वानुपस्थितावप्यनुमित्यापप्तिः महान. सीयवह्निमान्तज्ज्ञानत्वादित्यत्र वह्निमहानसीयाभावमादाय भवद्धिरपि दोषत्वेनाधितो व्याप्तिर्दोषोऽत्रालोचनीयइति ॥ अत्र वूमः सर्वेषानिरवच्छिन्नत्वसाध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्व. साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वादीनां यत्किश्चित्साध्यता. घच्छेदकताव्यापकावच्छेदकताकत्वसाध्यतावच्छेदकतात्वसामाना. धिकदणभेदप्रतियोगितावच्छेदकत्वोभयाभाववत्त्व एव तात्पर्य प्रतियोगितावच्छेदकता च स्वनिरूपितावच्छेदकतावत्त्वस्वनिरूपितावच्छेदकतात्वव्यापकत्वोभयसम्बन्धेन व्यापकता च स्वनिरूपितसाध्यतानिरूपितावच्छेदतावत्वसम्बन्धेन अवच्छेदकताबत्ता चोभयत्र प्रसिद्धचतुष्टयेषु यावदादेयन्तावद्भिः तथा च महानसीयवह्निसाध्यकस्थले प्रत्येकाभावमादाय न दोषः सम्बन्धफलन्तुपूर्ववदेववोध्यम् यद्वा यात्कञ्चित्साध्यतावच्छेदकताव्यापकावच्छेदकताकत्वसाध्यताविशिष्टान्यत्वोभयाभाव एव तात्पर्य्यमुक्तविषेशणनामालोचनीयम् वैशिष्टयञ्च स्वनिरूपितावच्छेदकताविशिष्टान्याच्छेदकत्वानिरूपितत्वस्ववृत्तित्वोमयसम्बन्धेन वृत्तित्वञ्च स्वनिरूपि. तावच्छेदकन्ताविशिष्टीन्यावच्छेदकत्वानिरूपितत्वसम्बन्धेन वैशिष्ट्य
"Aho Shrutgyanam"