________________
सिद्धान्तलक्षणतरवालोकः ।
वह्नित्वविशिष्टसाध्यकधूमेऽव्याप्तिः प्रतियोगितावच्छेदकताघटकस. म्बन्धावच्छिनवृत्तितावच्छेदकत्वविवक्षायाञ्च वाहत्वप्रतियोगिक समवायेन वह्नित्वविशिष्टस्य वह्नित्वप्रतियोगिकसमवायेन वह्नित्वविशिष्टनिरुपितविषयितया साध्यतायां तज्ञानत्वे हेत्वधिकरणनिरूपि तवृत्तितानिरूपितप्रतियोगितावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छे दकत्वाप्रसिद्धचाव्याप्तिः यदिच प्रतियोतावच्छेकताघटकसम्बन्धाव च्छिन्नत्वम् न्यूनवारकमात्रमेव विवक्षणीयमुक्तस्थले समवायेन. घटत्वविशिष्टाभावमादाय न दोषइत्युच्यते तदापि समवायस. म्वन्धाचच्छिन्नावच्छेदकताकविषयितासम्बन्धेन वह्निसाध्यकनित्यज्ञानत्वेऽव्याप्तिः शुद्धसमवायेन विशिष्टसमवायेन वा धर्ममात्रविशिष्टाभावस्य प्रतियोगिवैयधिकरण्यधिरहात्स्वरूपादिना किञ्चिद्धमविशिष्टाभावस्य प्रतियोगिवैयधिकरण्येऽपि तत्प्रतियोगितावच्छेदकताघटकसम्वन्धावच्छिन्नावच्छेदकताकस्य साध्यतावच्छे. देकसम्बन्धावच्छिन्नहेत्वधिकरणनिरूपितवृत्तित्वस्याप्रसिद्धेः यत्तु वह्निमान्तज्ज्ञानत्वादित्यत्र तादृशानवच्छेदकत्वविशिष्टतादृशावच्छदकत्ववद्रूपाप्रसिध्याऽव्याप्तिरिति तन्न स्वावच्छेदकतात्वावच्छिअप्रतियोगिताकपर्याप्त्यनुयोगितानवच्छेदकत्वस्वकालीनयत्किञ्चि. द्धत्वधिकरणानरूपितवृत्तितावच्छदकताप्रतियोगिकपर्याप्त्यनुयोगितावच्छदकत्वोभयसम्बन्धेन साध्यत्वाभाववद्रुपवृत्तित्वस्य विवक्षि. तत्वात् यधुक्तविषयित्वादीनां संसर्गत्व मिदानी न स्वीकरणीयम् । केवलविषयित्वादीनां तदीक्रियते चेद्भवतामनुशासनन्नदोक्तप्रकारस्यापि सदोषत्वङ्कोनाम ब्रूयादित्युपरम्यते ॥ * ॥ येतु यत्किञ्चित्सा. ध्यतावच्छेदकत्वावृत्तियत्किश्चिद्धेस्वधिकरणनिरूपितवृत्तितावच्छेद. कताविशिष्टावच्छेदकत्वानिरूपितत्वम्वाच्यम् वृत्तिता च स्वनिरूपि. तप्रतियोगितावच्छेदकतावत्वसम्बन्धेन अवच्छेदकतावसा च स्वसा. जात्यस्वसामानाधिकरण्योभयसम्बन्धेन वैशिष्टयञ्च स्वसाजात्यस्वसामानधिकरण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्वैतन्त्रितयसम्बन्धेन तथा च महानसीयाभावह्नयभावावादाय नाव्याप्तिः उक्तोमयसम्ब. न्धेन वृत्तित्वोपादाने तार्णवह्निसाध्यकव्यभिचारिणि प्रतियोगिताव. च्छदेकतायाः प्रत्येकं यकिश्चित्साध्यतावच्छेदकत्वावृत्तित्वेनातिव्याप्तिस्स्यादिति तदुपक्षितम् सामानाधिकरण्यमात्राको प्रमेयव.
"Aho Shrutgyanam"