________________
सिद्धान्तलक्षणतवालांकः ।
२१
तियोगितायां स्वविशिष्टस्यैव सत्त्वेनाव्याप्त्यापत्तेः नच साध्यतावच्छेदकावच्छिन्नत्वविशिष्टसाध्यतावच्छेदकेत रावच्छिन्नत्वाभावप्रतियोगितावच्छेदकत्वस्य प्रमेयेतरावच्छिन्नत्वत्व एव कल्पनीयतया सामान्याभावस्याप्रसिद्धः साध्यतावच्छेदकतासमानाधिकरणाधे
यत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदक तानिरूपितसामानाधिकरण्यसम्बन्धावच्छिन्नावच्छेदकतानिरूपितासती साध्यतावच्छेद के तरत्व समानाधिकरणावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकता निरुपितनिरुपितत्वत्वनिष्ठावच्छेदकताकप्रतियोगिताका भावत्वावच्छिन्नानुयोगिताक पर्थ्याप्तिक कूटत्वावच्छि नवत्त्वमेव निवेशनीयन्तत्र तादृशविशिष्टाभावोहि न घटत्वावच्छिअस्वविशिष्टघटत्वावच्छिन्नत्वाभावो गुरुधर्मस्य प्रतियोगितानवच्छेदकत्वेनाप्रसिद्धेः किन्तु घटत्वावच्छिन्नत्वविशिष्टपदत्वावच्छि नत्वाभाव एव सन्च घटाद्यभावप्रतियोगितास्वस्त्येवेति नाव्याप्तिरिति वाच्यङ्गुरुधर्मस्य प्रतियोगितावच्छेदकत्वपक्षे गत्यभावात् यश्ववच्छिन्नत्वस्यैकस्याभावेन प्रतियोगितानिष्ठस्यैव तस्य प्रवेशनीयतया प्रमेयसाध्य काव्याप्तिः प्रमेयघटाद्यभावप्रतियोगितावच्छेदकत्वस्य घदत्वमात्रे कल्पनीयतया प्रमेयत्वावच्छिन्नत्वविशिष्टघटत्वाद्यवच्छिन्नत्व. स्याप्रसिद्धेरिति तन्न साध्यतावच्छेद कनिष्टावच्छेदकतायी साध्यतावच्छेदकताघटकसम्वन्धावच्छिन्नत्वस्यानिवेशनीयतया विषयि
तथा प्रमेयत्ववज्ज्ञानाभावप्रतियोगितायामुभयावच्छिन्नत्वसम्भवात् नापि द्वितीयः जातिमद्वान् ज्ञानत्वादित्यत्र साध्यतावच्छेदकयत्कि चिजातिवक्ष्यमाणतदितरत्ववज्जात्यन्तरोभयनिष्टावच्छेदकतानिरू
पितत्वस्य साध्याभावप्रतियोगितायां सत्त्वेनातिव्याप्तेः । न तृतीयः प्रतियोगि निष्ठनानाविशेष्यता निरूपितावच्छेदकप्रकारतास्थल एवावच्छेदकताभेदस्य शक्तिवादादावुक्तत्वेन महानसीयवह्रयभावप्रतियो. गितायामुभयाभावसत्त्वादव्याप्त्यापत्तिरिति चेदुच्यते सावच्छिन्नत्व निरवच्छिन्नत्वादिविरुद्धधम्मीध्यासे नावच्छेदकताभेदस्यैव प्रामाणि कतयोभयाभावनिवेशोनिर्द्दष्ट एवेति केचित्तूभयमत साधारण्यानुरोधेन साध्यतावच्छेदकता विशिष्टावच्छेदकता निरूपितत्वघटितविशिष्टाभावोनिवेश्यः वैशिष्टयं च स्वसाजात्यस्व सामानाधिकरण्योभयसम्बन्धेन पवंच घटाभावीय प्रतियोगितायां सावच्छिन्नावच्छेदकता :
" Aho Shrutgyanam"