________________
सिद्धान्तलक्षणतच्चालोकः ।
थमन्यथाऽयमेको न द्वाविति प्रतीतिः गदाधरभट्टाचार्येण निवेशितम पि तथैवेति चेन्न तर्कालङ्कारमते अत्यन्ताभावस्येव भेदस्यापीदंत्वावच्छे देन प्रत्येकेऽनभ्युपगमात् अन्यथा यः प्रत्येकमात्रवृत्तिधमावच्छेदेन. यदभाववान्स उभयत्वावच्छेदेन तद्भाववानिति व्याप्तेरुभयत्वावच्छे देन तत्सत्त्वापत्यमौ नद्वाविति प्रतीत्यापत्तेः नचायं न द्वावित्यस्य कथं प्रमाण्यं शुद्धपर्य्याप्तिसम्बन्धेन द्वित्ववद्भेदस्य सत्त्वायोगादिदन्त्वा
वच्छेद्यपर्य्याप्तिसम्बन्धावच्छिन्नद्वित्वनिष्ठावच्छेदकताकप्रतियोगिता
कभेदस्याप्रसिद्धेः द्वित्वस्य धर्म्युपसर्जनत्वादनुयोगिवाचकपदोतरसप्तम्यभावाच्च तत्सम्बन्धावच्छिन्नद्वित्वाभावस्य बोधयितुम शक्यत्वादिति वाच्यमुक्त नियमानुराधेनात्यन्ताभावबोधनियमस्य सङ्कोचकल्पनादिति भट्टाचार्येण तूक्तनियमस्थाप्रयोजकत्वमङ्गीकृत्वेदन्त्वावच्छेदेन द्वित्वात्यन्ताभाववद्वद्भेदौ स्वीकृतौ तथासतीमौनद्वावितिप्रत्ययाप्रसङ्गात् । एवंचायं नद्रावितिप्रतीतिरपिभेदविषयिण्येवेत्यत्यन्ताभावबोधनियमो न संकोचनीयः इति तेषां तादृशनिवेशोयुक्त इति विवेकः अथ साध्यतावच्छेदकतात्वाव वच्छिन्न पर्याप्यनुयोगितावच्छेदकरूपावच्छेद्यपर्थ्याप्तिसम्बन्धावच्छिन्नतादृशावच्छेदकत्वाभा वस्य तादृशरूपावच्छेदेन निवेशे न कोपिदोष इति चेत्सत्यमत्यन्ताभावगर्भे तत्र न दोषः भेदगर्भे तादृशनिवेशासम्भवात् कल्पद्वयसाधा. रण्यायोभयानवच्छिन्नत्वम्बक्ष्यतीत्यवधेयम् एकत्वादेः पर्याप्त्यनभ्युपगमे साध्यतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदके तादृशप्रतियोगितावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगिताम वच्छेदकत्वविवक्षाया असंभवात्सोपेक्षितेतिबोध्यम् । यद्यपि साध्यतावच्छेदकावच्छिन्नत्वसाध्यतासमानाधिकरणभेद प्रतियोगितावच्छेदकत्वो. भयाभावनिवेशे न महानसीयवह्यभावमादायाव्याप्तिवारण संभवस्त-: थापि वह्निघटोभयाभावस्य सत्तासाध्यके विशिष्टसत्त्वाभावस्य च धारणसंभवेनाव्याप्त्या तत्परित्यज्यगुरुभूतमभयानवच्छिन्नत्वन्तद्वारणयाह तथापि साध्यतावच्छेदकतदितरोभयेति अथ किमुभयानवच्छिन्नत्वमेकावच्छिन्नत्व विशिष्टापरावच्छिन्नत्वाभावः किम्बा तदुभयनिष्ठावच्छेदकतानिरुपितत्वाभावः तादृशावच्छेदकतानिरूपितत्वद्वयाभावो वा तत्र नाद्यः प्रमेयवत्द्वान्वाच्यत्वादित्यत्र घटत्वादेस्सा-: ध्यतावच्छेदकत्वाद्वक्ष्यमाणरीत्या तदितरत्वाश्वेति घटाद्यभावीयप्र
२०
"Aho Shrutgyanam"