SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तलक्षणतच्चालोकः । तिवन्धकभावाङ्गीकरणाश्च कथमन्यथा प्रतियोगिता धम्मिको भयाभावादीनां व्याप्तिघटकत्वन्दीधितिकारा द्यनुमतम् कथम्वा व्याप्रिग्रहविचारे चिन्तामणिकृता साध्याभाववत्तित्वस्य व्यभिचारत्वस्यापकसामाधिनाधिकरण्यस्य च व्याप्तित्वम्बक्ष्यते ॥ * ॥ इत्थमव च व्याप्यवृत्तिसाध्यकस्थ ले हेतुसुमानाधिकरणत्वभिन्नत्रवृत्तितावच्छेदकाभावत्वनिरूपित प्रतियोगितावच्छेदकसाध्यतावच्छेदकावच्छि नसामानाधिकरण्यस्यापि व्याप्तित्वं निरस्तम्वेदितव्यमित्यलं पल्लवितेन ॥ * ॥ अथात्र नञोन्तरार्थकत्वेपि तद्व्यक्त्यभावमादाय प्रसञ्जिताया अव्याप्तेववरणसम्भवान्नञ्व्यत्यासपक्षोनोचितस्तथाहि तदवच्छिन्नान्तरत्वञ्च तदवच्छिन्नाविषयकप्रतीतिविषयत्वन्तदनवच्छिन्नप्रकारताश्रयत्वम्वा तस्य साध्यतावच्छेदकावच्छिन्नेऽन्वये - साध्यतावच्छेदके लभ्यते तदवच्छेदकत्वन्तथाच तद्व्यक्तित्वाव च्छिन्नाविषयकप्रीतिविषयतावच्छेदकत्वस्य वह्नित्वे सत्त्वान्नाव्याप्तिनैवाद्रव्यत्वादिना घूमत्वावच्छिन्नाविषयकप्रतीतिविषयत्वे यतिव्यातिरादरणीयतमश्चानयोरुत्तरः कल्पः तेन सङ्केतुविशेषे साध्यज्ञानस्य हेत्वधिकरणावृत्तियत्किञ्चित्पदार्थविषयक त्वनियमेपिनाव्याप्ति रेवंच वह्नित्वावच्छिन्नप्रकारकज्ञानस्य महानसीयव ह्नित्वावच्छिन्नाविषयकत्वात्तत्प्रकाताया वा महासीयवह्नित्वानव च्छिन्नत्वादव्याप्तिविरहेण वक्ष्यमाणतद्वारक विशेषणमपि नोपादेयमितिचेन्न तत्कल्पे नव्यत्यास पक्षापेक्षयातिगौरवस्य व्यक्तत्वात् नचात्र साध्यतावच्छेदकतदितरोभयानवच्छिन्नत्वाद्यनिवेशे न लाघवमिति वाच्यम् भवेदेवं यदि यथाश्रुत एव महानसीयवय भावमादायाव्याप्तेर्वारणं सम्भवेत् शुद्धवह्नित्वावच्छिन्नविषयत्वस्यापि त त्प्रतियोगितावच्छेदकीभूतवह्नित्वावच्छिन्नत्वान्नच तत्सम्भवति प्र १४ तियोगितावच्छेदकतात्वावच्छिन्न पर्याप्त्यनुयोगितावच्छेदकत्वस्य साध्यतावच्छेदकतात्वावच्छिन्न पर्य्याप्त्यनुयोगितावच्छेद के निवेशश्च पर्य्याप्तीय प्रतियोगिताचतुष्टये निरूपितत्वसम्बन्धावच्छिन्ना वच्छेदकताभिन्नावच्छेदकतात्वनेिष्ठावच्छेदकताभिन्नावच्छेदकत्वा निरुपितत्वचतुष्ठयस्य तादृशानुयोगितावच्छेदकत्वच तु प्रयस्य तत्र प्रविष्टत्वेन साध्यतावच्छेदकतदितरोभयानवच्छिन्नघदितादपि प्रतियोगितानवच्छेदकत्वकल्पादतिगुरुत्वादेकत्वादेः प "Aho Shrutgyanam"
SR No.009520
Book TitleSiddhanta Lakshan Tattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherVidya Vilas Yantralaya
Publication Year1925
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy