________________
सिद्धान्तलक्षणतत्वालोकः ।
योगितायामवच्छेदकतानिरूपितत्वत्रयविरहादिति वदन्ति तदसत्धूमवत्संयोगेन घटषदभावादिप्रतियोगिताया मुभयस्ययथाश्रुत
स्थापित्वा द्विवक्षितस्य रूपवृत्तित्वद्वयस्य धूमवदभावप्रतियोगितायामपी त्यतिव्याप्तिविरहा दुक्तयुक्त्याप्रमेयसाध्यकाव्याप्तेश्चेतिदिक् । अत्रापिस्वप्रतियोगितावच्छेदकसम्बन्धेनयत्प्रतियोगिताथच्छेदकानधिकरणत्वं हेतुमतो यद्धर्मावच्छिन्नावच्छेदकताकतस्प्रतियोगितासामान्ये यत्सम्बन्धावच्छिन्नावच्छेदकत्वाभावविवक्षाऽपि
दधित्वविशिष्टप्रेमयादिसाध्यकस्थलाव्याप्त्या पूर्ववदेवनिरस्तावे दि.
तव्या ॥ ● ॥ ० ॥!
. अन्यथादण्डिमानित्यादाविति, सर्वेषां दण्डानां हेतुमनिष्ठतत्तद्दण्डावच्छिन्नाभावप्रतियोगितावच्छेदकत्वेन तदभावस्य तत्तद्दण्डानधिके शुद्धदण्डे सत्वायोगा दव्याप्तिप्रसंगेपि तत्ताविशिष्टदण्डावचिछन्नत्वस्य शुद्धदण्डावच्छिन्नत्वस्यच विलक्षणत्वेन साध्यतावच्छेकशुद्धदण्डावच्छिन्नत्वघटितोभयाभावस्य प्रतियोगित्वसामान्ये सत्वेन नाव्याप्तिसम्भव इत्याशयः नचैवंतद्दण्डवतः साध्यतायांव्यभिचा. रिण्यतिव्याप्तिः प्रतियोगित्वसामान्ये शुद्धदण्डावच्छिन्नत्वघटितोभयाभावसत्वेन परम्परयातदवच्छेदकत्वस्य शुद्धदण्डे सत्वे विशिष्टेपिसत्वादितिवाच्यम् । यादृशधर्म्मावच्छिन्नविधेयकानुमितिः फलं तादशधम्मविच्छेद्यत्वघटिताभावस्यैव व्याप्तिघटकत्वेन तद्दण्डावच्छेद्यस्वघटितोभयाभावस्य प्रतियोगित्वसामान्येविरहा दतिव्याप्त्यभावात् । यद्यप्यबच्छेदकताघटितलक्षणेपि यादृशधम्र्मेऽनवच्छेदकत्वविवक्षायांनदोषः तथापि पय्यतेरख्याप्यवृत्तितायानिराकृतत्वेन साध्यतावच्छेदक धर्मिक व्यापकतावच्छेदकत्वग्रहस्य व्यापकतावच्छेदकतावच्छेदकत्वग्रहस्येदानीमनुमित्यजनकत्वस्याभ्युपगमा दवच्छेदकत्वगर्भनिरुक्तिपरित्यागः । तस्यानुमितिजनकत्वेच यद्रूपावच्छिन्नं याद्दशरूपावच्छिन्नमित्यादिविशेषव्याप्तौवक्ष्यति । अवच्छेद्यतागर्भेतु तत्तद्दण्डावच्छिन्नविधयेकानुमिती तादृशप्रति योगितात्वव्यापकतद्दण्डावच्छिन्नत्वघटिताभावप्रतियोगितानिरूपितपरम्पराऽवच्छेदकत्व रूपव्यापकतावच्छेदकत्वग्रहस्य भ्रमत्वात् शुद्ध दण्डविच्छेद्यत्वघटितोभयाभावस्य प्रतियोगित्व सामान्यनिष्ठस्य
प्रमात्वासम्भवा
प्रमात्वा
१८६
प्रतियोगितावच्छेदकत्वरूपव्यापकतावच्छेदकत्वग्रहस्यच
"Aho Shrutgyanam"