________________
सिद्धान्तलक्षणतत्वालोकः ।
१८१
तावच्छदकावच्छिन्नप्रतियोगिकसम्बन्धत्वाभयाभाव स्तारशप्रतियोगितोपादेयत्येवकुतोनोक्तमितिकथनोक्तमित्याशंकानिरस्ता । एवं. यथाश्रुतोभयाभावत्वस्यै ताशोभयाभावत्वापेक्षयागुरुत्वेन व्यापकताशरीरे तादृशोभयाभावत्व तदितरोभयानवच्छिन्नत्वप्रवेशनापि दीधित्युक्तलक्षणे गौरवम्बोध्यमित्यलम् ॥०॥ . प्रवादमनुसृत्याहेति, गगनस्यकालासम्बन्धित्वेतुच्छत्वंस्यात्, कालसम्बन्धस्यैवसत्वरूपत्वात् एवंशब्दादिकंप्रत्यकारणत्वमपिस्या कालासम्बन्धित्वेतस्यपूर्वकालसम्बन्धघटितत्वा दित्याद्यपियद्यपि गगनस्यकालसम्बन्धसाधकमस्ति तथापिप्रामाणिकत्वमेवसत्वं य. स्थचव्यतिरेकेयस्याभावस्तत्वमेवचकारणत्वमितिपक्षे तस्यासम्भवा त्प्रवादानुसरणङ्कतमितिबोध्यम् ।। .. धर्मसम्बन्धयोरुपादानमिति, अथधर्मविधयायत्साध्यतावच्छेद. दकन्धर्मविधयातदवच्छिन्नत्वस्य संसर्गविधयायवच्छेदकंसंसर्गवि. धयातदपच्छिन्नत्वस्यनिवेशनमभिमत न्तत्रसमवायिनस्संयोगेनसाध्यतायांसद्धेतावव्याप्तियारण मेकतरनिवेशेनापिसम्भवा दपरनिवेशनम्व्यर्थमिचेन्न, विषयितयाघटसाध्यकतज्ज्ञानत्वहेतुकसद्धतौ विषयितयाविषय्यभावीयप्रतियोगितायां संसर्गविधयायदवच्छेदकंयद्विषयित्वंसंसर्गविधयातदवच्छिन्नत्वस्य साध्यतावच्छेदकविषयित्वावछिन्नत्वस्यच द्वयोः सत्येनाव्याप्तधर्मविधयायदवच्छेदकमित्या स्यविवक्षणीयत्वात् विषयिणस्तादात्म्येनसाध्यतायां घटज्ञानत्वे वि. षयिणो विषयित्वसम्बन्धावच्छिन्नप्रतियोगिताकताहशाभावप्रतियोगितायां धर्मविधयासाध्यतावच्छेदकंयद्विषयित्वन्धर्मविधयातवाच्छ. सत्वस्य साध्यतावच्छेदकविषयित्वावच्छिनत्वस्यच द्वयोःसत्वेनाव्यासेरिणाय संसर्गविधयायदवच्छेदकमित्यस्यचप्रवेश्यत्वात् एवञ्च समवायिनस्संयोगेनसाध्यतायांसद्धती संयोगिनः समवायेनाभावमादाव्याप्तिवारणाय धर्मविधयातदवच्छिन्नत्वं संसर्गविधयातदव. च्छिमत्वम्वाप्रवेश्यमित्यत्र विनिगमकाभावेनोभयोरेवप्रवेश्यत्वा . दिचसंसर्गविधयावच्छिन्नत्वं सम्बन्धानवच्छिन्नावच्छेदकत्वं धर्मविधयावच्छेदकत्वं सम्बन्धावच्छिन्नावच्छेदकताकत्वं तथाचलाघव. मेवविनिगमकं निर्वचनसम्भवलक्षण्यस्याखण्डस्याप्रामाणिकत्वा त्तदा तदेकमेवनिवेश्यताम् । बस्तुतस्तु वह्निमान्धूमादित्यत्रमहानसी.
"Aho Shrutgyanam"