________________
सिद्धान्तलक्षणतत्वालोकः ।
माशङ्कबाद "प्रतियोग्युपलम्भेति” । अथकार्य सहभावेनेतिशब्दात्को यधिकरणवृत्तितयेत्येव लभ्यते तचप्राक्कालवृत्तितया हेतावप्यस्ती ति तत्रापितद्यवहारापत्तिः यदिकार्यकालमात्र वृत्तितयेत्यर्थः तदा कार्यसहभावेनहेतौ पूर्ववर्त्तिन्यनुपपत्तिरितिचेन्न कार्यसहभावेन हेतुत्वेत्यतः कार्याधिकरणवृत्यभावप्रतियोगितानवच्छेदक तत्तद्धर्म चत्वन्तेनतेन रूपेण हतुत्वमितितात्पर्याल्लभ्यते कारणत्वंचोभयसा धारणं स्वाधिकरणस्व पूर्वत्वाधिकरणक्षणद्वयावच्छिन्नस्व सामाना
.९४
धिकरणाभावप्रतियोधिगतानवच्छेदकधर्मवत्वमितिदोषाभावादिति
दीधिती "इतिव्याप्तेर्यावत्संयोगाभावश्वमानमिति" इतीतिलु तपञ्चमीकं योयदीययावद्विशेषाभाववान्सतत्सामान्याभाववानित्यु दाहरणस्वरूपज्ञानजन्यज्ञानविषयत्वरूपंव्यान्यन्वयिनमर्थम्बोधयति
अत्र
व्याप्तेरित्यत्र पञ्चमीचमितिकरणत्वान्वितं प्रयोज्यत्वं शायमानलिङ्गस्य मानत्वपक्षे संयोग यावद्विशेषाभावपदं प्रथमान्तं ज्ञानस्य करणत्वे विषयत्वार्थक सम्यन्तंमान पदंवामानविषयलाक्षणिकंबोध्यम् || यत्पदं यद्धर्माश्रयपरं विशेषशब्दार्थश्चोभयावृत्तिधर्मवान् तदेकवे शधर्मान्वयिवृत्तित्वन्तद्धितार्थः प्रतियोगितासम्बन्धेन तस्याभावें
न्धयः विशेषशब्दस्यघोभयावृत्तिधर्मावच्छिन्नप्रतियोगितानिरूप केलक्षणा यावत्पदस्थतात्पर्याद्भाव पदेन सहासप्तिःकल्प्या तथाच यद्धर्मसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताका भावकूट स्यहेतुत्वं पर्यवसितं तत्पदस्यतद्धमवच्छिन्नपरतया साध्यत्वमपि तद्धर्मावच्छिन्नाभावस्यैवेत्यभिप्रायेणाह "योयजातिसमानाधिकर
णेत्यादि" ।
अथलाघवेन यद्धर्मसामानाधिकरण्यमुभयावृत्तित्वं च प्रतियो गिताविशेषणमस्व लन्धर्मविशेषणतया सत्त्वगुणत्वावच्छिन्नप्रति योगित्वादीनामुभयावृत्तित्वविरहेण स्वरूपासिस्वनवकाशात्
न्ताभावस्यत्रितयप्रतियोगिकत्वेपिप्रतियोगितायाभेदात्तत्संयोगाभाव
स्योभयावृत्तिप्रतियोगिताकत्वमव्याहतमिति चेन्न प्रतियोगिभेदेन
प्रतियोगिताभेदेसंयोगाद्यभावस्याप्युभयावृतिप्रतियोगिताकत्वेना
सिद्धिप्रसंगात् स्वनिरूपित प्रतियोगितावत्वसम्बन्धेनोभयावृत्तित्वस्याभावविशेषणत्वे संयोगाद्यभाववारणेपितत्संयोगाभावस्यतत्क्ष
-णविशिष्टतत्संयोगाभावाभावाभावरूपतया त्रितयप्रतियोगिकतयावा
"Aho Shrutgyanam"
अत्य