________________
पाटलिपुत्र नगरकल्पः ।
३६. पाटलिपुत्रनगरकल्पः ।
६७
आनम्य श्रीनेमिनमनेकपुंरलजनिपवित्रस्य । श्रीपाटलिपुत्राह्वयनगरस्य प्रस्तुमः कल्पम् ॥ १ ॥ पूर्वं किल श्रीश्रेणिक महाराजेऽस्तंगते तदात्मजः कूणिकः पितृशोकाचम्पापुरी न्यवीविशत् । तस्मिंश्चाले - ख्यशेषतां प्रयाते तत्सूनुरुदायिनामधेयश्वम्पायां क्षोणिजानिरजनिष्ट । सोऽपि स्वपितुस्तानि तानि सभाक्रीडाशयनासनादिस्थानानि' पश्यन्नस्तोकं शोकमुदवहत् । ततोऽमात्यानुमत्या नूतनं नगरं निवेशयितुं नैमित्तिकवरान् स्थानगवेषणा-5 यादिक्षत् । तेऽपि सर्वत्र तांस्तान् प्रदेशान् पश्यन्तो गङ्गातटं ययुः । तत्र कुसुमपाटलं पाटलितरुं प्रेक्ष्य तच्छोभाचमत्कृतास्तच्छाखायां निषण्णं चाषं व्यात्तवदनं स्वयं निपतत्कीटकपेटकमालोक्य चेतस्यचिन्तयन् - अहो ! यथाऽस्य चापक्षिणो मुखे स्वयमेत्य कीटाः पतन्तः सन्ति तथात्र स्थाने नगरे निवेशितेऽस्य राज्ञः खयं श्रियः समेष्यन्ति । तच्च ते राज्ञे व्यजिज्ञपन् । सोऽप्यतीव प्रमुदितः । तत्रैको जरनैमित्तिको व्याहरद्-देव ! पाटलातरुरयं न सामान्यः | पुरा हि ज्ञानिना कथितम्-
10
पाटलादुः पवित्रोऽयं महामुनिकरोटिभूः । एकावतारोऽस्य मूलजीवश्चेति विशेषतः ॥ २ ॥
?
राज्ञोक्तम्– कतमः स महामुनिः । तदनु जगाद नैमित्तिकः - श्रूयतां देव ! | उत्तरमथुरायां वास्तव्यो देवदत्ताख्यो वणिक्पुत्रो दिग्यात्रार्थं दक्षिणमथुरामगमत् । तत्र तस्य जयसिंहनाम्ना वणिक्पुत्रेण सह सौहृदमभवत् । अन्यदा तगृहे भुञ्जानोऽनिकानानीं तज्जामिं स्थाले भोजनं परिवेष्य वातव्यजनं कुर्वन्तीं रम्यरूपामालोक्य तस्यामनुरक्तो द्वितीयेऽह्नि 'चरकान् प्रेष्य जयसिंहं तामयाचिष्ट । सोऽभ्यधाद् अहं तस्मा एव ददे 'स्वस्वसारं यो 15 मगृहाद्दूरे न भवति । प्रत्यहं तां तं च यथा पश्यामि यावदपत्यजन्म । तावद्यदि मद्गृहे स्थाता 'तदा तस्य जामिं दास्यामीति । देवदत्तोऽप्योमित्युक्त्वा शुभेऽह्नि तां पर्यणैषत् । तया सह भोगान् भुञ्जतस्तस्यान्यदा पितृभ्यां लेखः प्रैषि ँ । तं वाचयतस्तस्य नेत्रे यर्षितुमश्रूणि " प्रवृत्ते । ततस्तया हेतुं पृष्टोऽपि यावन्नाब्रवीत् तावत्तयाऽऽदाय लेखः स्वयं वाचितः । तत्र चेदं “लिखितमासीद् गुरुभ्याम् -- यद्वत्स ! आवां वृद्धौ निकटनिधनौ; यदि च नौ जीवन्तौ दिदृक्षसे तदा द्रागागन्तव्यमिति । तदनु सा पतिमाश्वास्य स्वभ्रातरं हठादप्यऽन्वजिज्ञपत् । भर्त्रा सह प्रतस्थे चोत्तरमथुरां प्रति सगर्भा | 20 क्रमान्मार्गे " सा "सूनुमसूत । नामास्य पितरौ करिष्यत इति देवदत्तोक्ते परिजनस्तमर्मकमन्निकापुत्र इत्युल्लापितवान् । क्रमेण देवदत्तोऽपि खपुरीं प्राप* । पितरौ प्रणम्य च शिशुं तयोरार्पयत् । सन्धीरणेत्याख्यां तौ "नप्तः पुनश्चक्राते, तथाप्यन्निकापुत्र इत्येव पप्रथेऽसौ । वर्द्धमानश्च प्राप्ततारुण्योऽपि भोगांस्तृणवद्विधूय जयसिंहाचार्य पार्श्वे दीक्षामग्रहीत्" । गीतार्थीभूतः प्रापदाचार्यकम् । अन्यदा विहरन् सगच्छो वार्द्धके पुष्प भद्रपुरं गङ्गातटस्थं प्राप्तः । तत्र पुष्प केतुर्नृपस्तद्देवी पुष्पवती तयोर्युग्मजौ पुष्पचूलः पुष्पचूला चेति पुत्रः पुत्री चाभूताम् । तौ च सह वर्द्धमानौ क्रीडन्तौ च परस्परं 25 प्रीतिमन्तौ जातौ । राजा दध्यौ - यद्येतौ दारकौ वियुज्येते तदा नूनं न" जीवतः; अहमप्यनयोर्विरहं सोढुमनीशस्तस्मादनयोरेव विवाहं करोमीति ध्यात्वा मन्त्रिमित्र" पौरां छलेना पृच्छद् - भो ! यद्रलमन्तःपुरे उत्पद्यते तस्य कः प्रभुः ? | 'तैर्विज्ञप्तम्-देव ! अन्तःपुरोत्पन्नस्य किं वाच्यम्, यद्देशमध्ये " ऽप्युत्पद्यते रत्नं तद्राजा यथेच्छं विनियुक्ते । कोऽत्र " बाधः ! | तच्छ्रुत्वा स्वाभिप्रायं निवेद्य देव्यां वारयन्त्यामपि तयोरेव सम्बन्धमघटयन्नृपः । द्वौ दम्पती भोगान् भुङ्क्तः स्म । राज्ञी तु पत्यपमाने" वैराग्याद्व्रतमादाय खर्गे देवोऽभूत् । अन्यदा पुष्पकेतौ कथाशेषे पुष्पचूलो राजाऽभूत्" । स च देवः प्रयुक्ता - 30 वधिस्तयोरकृत्यं ज्ञात्वा खमे पुष्पचूला या नरकानदर्श यत्तदुःखानि च । सा च प्रबुद्धा भीता च पत्युः सर्वमावेदयत्। सोऽपि
* C आदर्श इदं पद्यं नास्ति । 1 B सनादीनि । 2 B P अमात्या । 3 P कुसुमपाटलिं । 4 P भोज्यं । 5PD वरकान् । 6A C 'ख' नाति । 7 BD Pa 'सदा' नास्ति । 8P प्रेषितः । 9P 'तं' नास्ति । 10BD 'भथु । 11 P लेखित । 12 B 'सा' नास्ति । 13 P सुत° 14 B C प्राप्य 15 B पुन 116P कक्षीचके । 17 B नास्ति 'न'। 18 B मन्त्रिमत्रि'; P मन्त्रिमन्त्र 19 Pab मध्येषु । 20 P बाध्यः । 21 BD मान। 22 P जज्ञे ।