________________
६२
विविधतीर्थकल्पे कस्त्वं किमर्थ चात्र भवदागमनमिति: । तेनाभिदधे-महाराज! भवतः कीर्तिमुभाकर्णि समाकर्ण्य करुणरुदितव्याजेनारमानं ज्ञापयित्वा त्वामहमुपागमम् , दृष्टश्च भवान् , कृतार्थे मेऽद्य चक्षुषी जाते इति । कां कलां सम्यगवगच्छसि !-इति राज्ञा पृष्टे, तेनोक्तम् देव ! गीतकलां वेभि । ततो राज्ञ आज्ञया निरवगीतं गीतं गातुं प्रचक्रमे । क्रमेण तद्गानकलया मोहिता सकलापि नृपतिप्रमुखा परिषत् । स च मायासुरनामकोऽसुरस्तां मायां निर्माय महीपतेर्महिषी 5 महनीयरूपधेयामपजिहीर्घरुपागतो बभूव । न च विदितचरमेतत्कस्यापि । लोकैस्तु शीर्षमात्रदर्शनात्तस्य प्राकृतभाषया
सीपुला इति व्यपदेशः कृतः । तदनु प्रतिदिनं तस्मिन्नतितुंबरौ मधुरतरं गायति सति श्रुतं तस्वरूपं महादेव्या । दासीमुखेन भूपं विज्ञाध्य तच्छीर्षकं खान्तिकमानायितम् । प्रत्यहं तमजीगपत् राज्ञी । दिनान्तरे रात्रौ प्रस्तावमासाद्य सद्य एवापहरति स्म तां मायासुरः । आरोपयामास च घण्टाविलम्बिनामनि स्वविमाने । राज्ञी च करुणं क्रन्दितुमारे
मे-हाऽहं केनाप्यपहिये! ! अस्ति कोऽपि वीरः पृथिव्यां यो मां मोचयति । तच खूदलाभित्येन वीरेण श्रुत्वा 10धावित्वा व्योमन्युत्पत्य च तद्विमानस्य घण्टा पाणिना गाढमधार्यत । ततस्तत्प्राणेनावष्टब्धं विमानं पुरस्तान प्राचालीत् । तदनु चिन्तितं मायासुरेण-किमर्थं विमानमेतन्न सर्पति ? । यावदद्राक्षीतं वीरं हस्तावलम्बितघण्टं ततः खड्गेन तद्धस्तमच्छिदत् । पतितः पृथिव्यां वीरः । स चासुरः पुरः प्राचलत् । ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः पञ्चाशतमेकोनां वीरानादिक्षत्-यत्पट्टदेव्याः शुद्धिः क्रियताम् , केनेयमपहृतेति । प्रागपि शूद्रकं प्रत्यसूयापराः ते प्रोचुः
महाराज! शुद्रक एव जानीते अनेनैव तच्छीर्षकमानीतं तेनैव च देवी जहू । ततो नृपतिस्तस्मै कुपितः शूलारोपण15 माज्ञापयत् । तदनु देशरीतिवशात्तं रक्तचन्दनानुलिप्ताङ्गं शकटे शाययित्वा, तेन सह गाढं बध्वा, शूलायै यावदाजपुरुषाश्चेलुस्तावत्पञ्चाशदपि वीरास्सम्भूय शुद्रकमवोचन्-भो महावीर ! किमर्थमेवं रण्डेव म्रियते भवान् ! । 'अशुभस्य कालहरण मिति न्यायात् मार्गय नरेन्द्राकतिपयदिनावधिम् , शोधय सर्वत्र देव्यपहारिणम्', किमकाण्ड एव खकीयां वीरत्वकीर्तिमपनयसि । तेनोक्तम्-गम्यतां तर्हि उपराजम् , विज्ञाप्यतामेतमर्थ राजा । तैरपि तथाकृते प्रत्यानायितः
शुद्रकः क्षितीन्द्रेण । तेनापि स्वमुखेन विज्ञप्तिः कृता-महाराज ! दीयतामवधिर्येन विचिनोमि प्रतिदिशं देवीं तदप20 हारिणं च । राज्ञा दिनदशकमवधिदत्तः । शूद्रकगृहे च सारमेयद्वयमासीत्तत्सहचारि । नृपतिरपददेतद्भवणयुगलं प्रति
भूप्रायमसत्पाबें मुञ्च, स्वयं पुनर्भवान् देव्युदन्तोपलब्धये हिण्डतां महीमण्डलम् । सोऽप्यादेशः प्रमाणमित्सुदीर्यवीर्यवान् प्रतस्थे । भूचक्रशकस्तत्कौलेयकद्वन्द्वं शृङ्खलाबद्धं स्वशय्यापादयोरबध्नात् । शुद्रकस्तु परितः पर्यट्यमानोऽपि यावत्प्रस्तुतार्थस्य वार्तामात्रमपि कापि नोपलेभे, तायदचिन्तयद् अहो ! ममेदमपयशः प्रादुरभूद्यदयं खामिद्रोही मध्ये भूत्वा देवीमुपाजीहरदिति । न च वापि शुद्धिर्लब्धा तस्यास्तस्मान्मरणमेव मम शरणमिति विमृश्य दारुभिश्चितामरचयत् । ज्वलनं 25 चाज्वालयद्यावन्मध्ये प्राविशत्तावत्वाभ्यां शुनकाभ्यां देवताधिष्ठिताभ्यां ज्ञातं यदस्सदधिपतिनिधनं धनायन्नस्तीति । ततो
दैवतशक्त्या शृङ्खलानि भक्त्वा निर्विलम्बं गतौ तौ तत्र यत्रासीच्छूद्रकरचिता चिता । दशनैः केशानाकृष्य शुद्रकं बहिनिष्कासयामासतुः । तेनाप्यकस्मात्तौ विलोक्य विस्मितमनसा निजगदे-रे पापीयांसौ ! किमेतत्कृतं भवभ्यामशुभवद्भ्याम् । राज्ञो मनसि विश्वासनिरासो भविष्यति, यत्पतिभुवावपि तेनात्मना सह नीताविति । भषणाभ्यां बभाषे-धीरो
भव, अस्मदर्शितां दिशमनुसर, सरभसं का चिता तवेत्यभिधाय पुरोभूय प्रस्थितौ तेन सार्द्धम् । क्रमात्प्राप्ती कोल्ला30 पुरम् । तत्रस्थं महालक्ष्मीदेव्या भवनं प्रविष्टौ । तत्र शूद्रकस्तां देवीमभ्यर्च्य कुशस्त्रस्तरासीनस्त्रिरात्रमुपावसत् । तदनु
प्रत्यक्षीभूय भगवती महालक्ष्मीस्तमवोचत्-वत्स ! किं मृगयसे । शुद्रकेणोक्तम्-खामिनि ! सातवाहनमहीपालमहिप्याः शुद्धिं वद; वास्ते, केनेयमपहृता ? । श्रीदेव्योदितम्-सर्वान् यक्षराक्षसभूतादिदेवगणान् सम्मील्य तत्प्रवृत्तिमहं निवेदयिष्यामि । परं तेषां कृते त्वया बल्युपहारादिप्रगुणीकृत्य धार्यम् । यावच ते कणेहत्य बल्याधुपभुज्य प्रीता न भवेयुस्तावत्त्वया विघ्ना रक्षणीयाः । ततः शुद्रकरतेषां देवतानां तर्पणार्थ कुण्डं विरचय्य होममारेभे । मिलिताः
1B निरवगानगातुं। एतदन्तर्गताः पंक्तयः पतिताः B आदर्श। 2 एते शब्दा अनुपलभ्याः प्रती। 3 Pa परिहारेणं। 4 B °पहारिणी वा।