________________
६०
विविधतीर्थकल्पे कोष्ठागारगतधान्यानि सर्वाण्यपि खीकुरुताम् । यस्य चास्थीनि निरगुः सोऽश्वगोमहिषीवृषभदासीदासादिकमुपादत्तामिति युष्मज्जनकस्याशयः । इति क्षीरकण्ठोक्तं श्रुत्वा सूत्रकण्ठाश्छिन्नविवादास्तद्वचनं प्रतिश्रुत्य तमनुज्ञाप्य प्रत्याययुः खनगरीम् । प्रथिता सा तद्विवादनिर्णयकथा पुर्याम् । राज्ञाप्याकार्य पर्यनुयुक्ताः-किं नु भो ! भवतां वादनिर्णयो जातः । तैरुक्तम्- आम खामिन् ! ! केन निर्णीतः ?-इलि नृपेणोदिते सातवाहनखरूयं सर्वमवितथमचकथन् । तदाकर्ण्य, 5 तस्य शिशोरपि बुद्धिवैभवं विभाव्य, प्रागुक्तं दैवज्ञेन तस्य प्रतिष्ठाने राज्यं भविष्यदनुस्मृत्य, तं खप्रतिपन्थिनमाकलय्य क्षुभितमनास्तन्मारणौपयिकमचिन्तयञ्चिरं नरेश्वरः । अभिमरादिप्रयोगैसरिते चास्मिन्नयशः क्षात्रवृत्तिक्षती भवेतामिति विचार्य सन्नद्धचतुरङ्गचमूसमूहोऽवन्तिपतिः प्रस्थाय प्रतिष्टानपत्तनं यथेष्टमवेष्टयत् । तदवलोक्य ते प्राम्यास्त्रस्ताश्चिन्तयन्ति स्म । कस्योपर्ययमेतावानाटोपः सकोपस्य मालवेशस्य । न तावदत्र राजा राजन्यो वा वीरस्ताहग्दुर्गादि वेति चिन्तयत्सु तेषु मालवेशप्रहितो दूतः समेत्य सातवाहनभवोचत्-भो कुमारक ! तुभ्यं नृपः क्रुद्धः प्रातस्त्वां मार10 यिष्यत्यतो युद्धाद्युपायचिन्तनावहितेन भवता भाव्यमिति । स च श्रुत्वापि दूतोक्तीनिर्भयं निर्भर' क्रीडन्नेवास्ते । अत्रा
न्तरे विदितपरमार्थौ तौ तन्मातुलावितरेतरं प्रति विगतदुर्विकल्पो पुनः प्रतिष्ठानमागतौ परचक्रं दृष्ट्वा भगिनी प्रोचतुः-हे खसर्येन दिवौकसा तवायं तनयो दत्तस्तमेव स्मर, यथा स एवास्य साहायकं विधत्ते । सापि तद्वचसा प्राचीनं नागपतेर्वचः स्मृत्वा शिरसि निवेशितघटा गोदावयाँ नागहृदं गत्वा, स्नात्वा च, तमेव नागनायकमाराधयत् । तत्क्षणा
नागराजः प्रत्यक्षीभूय वाचमुवाच ब्राह्मणी-को हेतुरहमनुस्मृतस्त्वया ? ! तया च प्रणम्य यथास्थितमभिहिते, बभाषे 15 शेषराजः-मयि प्रतपति कस्तव तनयममिभवितुं क्षमः ? इत्युदीर्य तद् घटमादाय हृदान्तर्निमज्य पीयूषकुण्डात् सुधया
घटं प्रपूर्यानीय च तस्यै दत्तवान् । गदितवांश्व-अनेनामृतेन सातवाहनकृतमन्मयाश्वरथगजपदातिजातमभिषिञ्चेः, यथा तत्सीवं भूत्वा परवलं मनक्ति । त्वत्पुत्रं च प्रतिष्ठानपत्तनराज्ये अयमेव पीयूषघटोऽभिषेक्ष्यति । प्रस्तावे पुनः स्मरणीयोऽहम्-इत्युक्त्वा खास्पदमगमद्भुजङ्गपुङ्गवः । सापि सुधाघटमादाय खसद्मोपेत्य, तेन तन्मृन्मयं सैन्यमदैन्यमभ्यु
क्षामास । प्रातदिव्यानुभावतस्सचेतनीभूय तत्सैन्यं सम्मुखं गत्वा युयुधे परानीकिन्या सार्द्धम् । तया सातवाहन20 पृतनया भन्ममवन्तीशितुर्बलम् । विक्रमनृपतिरपि पलाय्य ययाववन्तीम् । तदनु सातवाहनो राज्येऽभिषिक्तः ।
प्रतिष्ठानं च पुनर्निजविभूतिपरिभूतवस्त्रोकसाराभिमानं धवलगृहदेवगृहहट्टपंक्तिराजपथप्राकारपरिखादिभिः सुनिविष्टमजनिष्ट पत्तनम् । सातवाहनोऽपि क्रमेण दक्षिणापथमनृणं विधाय तापीतीरपर्यन्तं चोत्तरापथं साधयित्वा खकीयसंवत्सरं प्रावीवृतत् । जैनश्च समजनि । अचीकरच जनितजननयनशैत्यानि जिनचैत्यानि । पञ्चाशद्वीरा अपि प्रत्येकं खखनामाकितान्यन्तनगरं कारयांबभूवुर्जिनभवनानि ।
॥ इति प्रतिष्ठानपत्तनकल्पः ॥
॥ ग्रं०४७॥
25
IBनास्ति पदमेतत् । 2 PN मृन्मय ।