________________
प्रतिष्ठानपुरकल्पः ।
३३. प्रतिष्ठानपुरकल्पः ।
श्रीसुनतजिनं नत्वा प्रतिष्ठां प्रापुषः क्षितौ । प्रतिष्ठानपुरस्याभिदध्मः कल्पं यथाश्रुतम् ॥ १ ॥
इह भारते वर्षे दक्षिणखण्डे महाराष्ट्रदेशावतंसं श्रीमत्प्रतिष्ठानं नाम पत्तनं विद्यते । तच्च निजभूत्याभिभूतपुरुहूत' पुरमपि कालान्तरेण क्षुल्लकग्रामप्राय मजनिष्ट । तत्र चैकदा द्वौ वैदेशिकद्विजी समागत्य विधवया स्वस्रा साकं कस्यचित्कुम्भकारस्य शालायां तस्थिवांसौ । कणवृत्तिं विधाय कणान् स्वरुपनीय तत्कृताहारपाकेन समयां कुरुतः स्म । अन्येद्युः सा तयोर्विप्रयोः खसा जलाहरणाय गोदावरीं गता । तस्याश्च रूपमप्रतिरूपं निरूप्य स्मरपरवशोऽअन्तर्हृदवासी शेषो नाम नागराजो हृदान्निर्गत्य विहितमनुष्यवपुस्तया सह बलादपि सम्भोगकेलिमकलयत् । भवितव्यताविलसितेन तस्याः सप्तधातुरहितस्यापि तस्य दिव्यशक्त्या शुक्रपुद्गलसञ्चाराद्गर्भाधानमभवत् । खनामधेयं प्रकाश्य, व्यसनसङ्कटे मां स्मरेत्यभिधाय च, नागराजः पाताललोकमगमत् । सा च स्वगृहं प्रत्यगच्छत् । व्रीडापीडितया तया च स्वभ्रात्रे स्ववृत्तान्तं न खलु न्यवेदयत् । कालक्रमेण सौदर्याभ्यां गर्भलिङ्गानि वीक्ष्य सा जातगर्भेत्यलक्ष्यत । ज्याय- 10 सस्तु मनसि शङ्का जाता, यदियं खलु कनीयसोपमुक्तेति । शङ्कनीयान्तराभावाद्यवीयसोऽपि चेतसि समजनि विकल्पों, नूनमेषा ज्यायसा सह विनष्टशीला - इत्येवं मिथः कलुषिताशयौ विहाय तामेकाकिनीं पृथक् पृथक् देशान्तरमयासि - ष्टाम् । सापि प्रवर्धमानगर्भा परमन्दिरेषु कर्माणि निर्मिमाणा प्राणवृत्तिमकरोत् । क्रमेण पूर्णेऽनेहसि सर्वलक्षणलक्षिताङ्गं प्रसूत सूनुम् । स च क्रमाद् वपुषा गुणैश्व वर्धमानः सवयोभिरमा रममाणो बाल्कीडया स्वयं भूपतीभूय तेभ्यो वाहनानि करितुरगरथादीनि कृत्रिमाणि दत्तवानिति । सनोतेर्दानार्थत्वात् । लोकैः सातवाहन इति व्यपदेशं लम्भितः । 15 खजनन्या पाल्यमानः सुखमवास्थित ।
५९
इतोज्जयिन्यां श्रीविक्रमादित्यस्यावन्तिनरेशितुः सदसि कश्चिनैमित्तिकः सातवाहनं प्रतिष्ठानपत्तने भाविनं नरेन्द्रमादिशत् । अथैतस्यामेव पुर्यामेकः स्थविरविप्रः स्वायुरवसानमवसाय चतुरः स्वतनयानाहूय प्रोक्तवान् । यथा - वत्स ! मयि परेयुषि मदीयशय्योच्छीर्षकदक्षिण पदादारभ्य चतुर्णामपि पादानामधो वर्तमानं निधिकलशचतुष्टयं युष्माभिर्यथाज्येष्ठं विभज्य ग्राह्यम्, येन भवतां निर्वाह: संपनीपद्यते । पुत्रैस्तु तथेत्यादेशः स्वीचक्रे 20 पितुः । तस्मिन्नुपरते तस्यैौर्ध्वदेहिकं कृत्वा त्रयोदशेऽहनि भुवं खात्वा यथायथं चतुरोऽपि निधिकलशांस्ते जगृहिरे । यावदुद्घाट्य निभालयन्ति तावत्प्रथमस्य कुम्भे कनकम्, द्वैतीयकस्य कृष्णमृत्सा, तृतीयस्य बुशम्, तुरीयस्य चास्थीनि ददृशिरे । तदनु ज्यायसा साकं इतरे त्रयोऽपि विवदन्ते स्म - यदस्मभ्यमपि विभज्य कनकं वितरेति । तस्मिंश्चावितर सति तेऽवन्तिपतेर्धर्माधिकरणमुपास्थिषत । तत्रापि न तेषां वादनिर्णयः समपादि । ततश्चत्वारोऽपि ते महाराष्ट्रजनपदमुपानंसिषुः । सातवाहन कुमारस्तु कुलालमृदा हस्त्यश्वरथसुभटानन्वहं नवनवान् विदधानः कुलालशालायां 25 बालक्रीडादुर्ललितः कलितस्थितिरनयत् समयम् । ते च द्विजतनुजाः प्रतिष्ठानपत्तनमुपेत्य परितस्तस्यामेव चक्रजीवनशालायां तस्थिवांसः । सातवाहन कुमारस्तु तानवेक्ष्येङ्गिताकार कुशलः प्रोवाच भो विप्राः । किं भवन्तो वीक्षापन्ना इव वीक्ष्यन्ते । तैस्तु जगदे -जगदेकसुभग ! कथमिव वयं चिन्ता चान्तचेतसस्त्वयाऽज्ञासिष्महि । कुमारेण बभणेइङ्गितैः किमिव नावगम्यते ! । तैरुक्तम् - युक्तमेतत् परं भवतः पुरो निवेदितेन चिन्ताहेतुना 'किं स्याद् ! | बालः खलु भवान् । बाल आलपद्-यदि परं जातु मत्तोऽपि साध्यं वः सिध्यति । तन्निवेद्यतां स चिन्ताहेतुः । ततस्ते तद्व- 90 चनवैचित्रीहृतहृदयाः सकलमपि स्वस्वरूपं निधिनिरयणादि मालवेशपरिषद्यपि विवादानिर्णयान्तं तस्मै निवेदितवन्तः । कुमारस्तु स्मितविच्छुरिताधरोऽवादीत्-मो विप्राः ! अहं यौष्माकं झगटकं निर्णयामि श्रूयतामवहितैः । यस्य तावद्वत्रा कनककलशं प्रददे स तेनैव निर्वृतोऽस्तु । यस्य कलशे कृष्णमृत्स्ना निरगात्स क्षेत्र केदारादीन् गृह्णातु । यस्य तु बुशंस
1B प्राकः
0 एतदन्तर्गता पंक्तिः पतिता C आदर्श | 2 B नास्त्यैतत्पदम् । 3 B समागम्य । 4C पीडिततया । 5 B लक्ष्यते । 6 BP & पुरेयुधि । 7 Pa ° पदे । 8 B P वीश्यापन्ना । 9 B बिना हेतुना |