________________
५८
विविधतीर्थकल्से शुचितरमम्माणपाषाणघटितं विलोक्य प्रमुदितमुदितवासनातिशयेन तेन वणिग्वरेण ऋजुमनसा नमस्कृतस्तिरस्कृतदुरन्तदुरितो भगवान् , पूजितश्च पुष्पादिभिश्चैत्यवन्दना च विरचिता । ततः स तत्रैव भोजनमकुरुत गुरुतराभिग्रहः । इत्थं कारं प्रतिदिनं जिनपूजानिष्ठामनुतिष्ठति सति तस्मिन् वणिजि, अपरेधुरुधदविवेकातिरेकबहुलै हलैस्तस्माकिमपि द्रव्यं 'धनायद्भिस्तबिम्बं शकलानि युतकीकृत्य कचिदपि संगोप्य धृतम् । यावत्पूजावसरे तां प्रतिमामनालोक्य नासौ बुभुजे । 5 ततस्तेन विषण्णमनसा विहितमपानकमुपवासत्रयम् । अथ स मेदैरपृच्छि-किमर्थ नानासि ।। स यथातथमचकथत् । ततः किरातवातैरवादि-यदास्मभ्यं गुडं ददासि, तदा तुभ्यं दर्शयामस्तं देवम् । वणिजा बभणे--वितरिष्याम्यवश्यमिति । ततस्तैस्तत् सकलमपि शकलानां नवकं, सप्तकं या, प्राग्वत् संयोज्य प्रकटीकृतम् , दृष्टं च तेन संयोज्यमानं तद्विम्बम् । सुतरां विषादनिषादसंस्पर्शकलुषितहृदयः समजनि स श्राद्धधुरीणः । तदनु सात्त्विकतयाभिग्रहमग्रहीद्यावदिदं बिम्बमखण्डं
न विलोकये तावन्नौदनमग्रीति । तस्येत्थमनुदिवसमुपवसतस्तविम्बाधिष्ठायकैः खमे निजगदे-यदस्य बिम्बस्य नवखण्ड10 सन्धयश्चन्दनलेपेन पूरणीयाः, तत इदमखण्डतामेष्यतीति । प्रबुद्धेन तेन प्रातर्जातप्रमोदेन तथैव चक्रे । समपादि भग
वानखण्डवपुः । सन्धयश्च मिलिताश्चन्दनानुलेपमात्रेण । क्षणमात्रेण भगवन्तं विशुद्धश्रद्धया सम्पूज्य मुक्तवान् पण्याजीव: पीवरां मुदमुद्वहन् , ददौ च गुडादि मेदेभ्यः । तदन्तरं तेन वणिजा मणिजातमिव प्राप्य प्रहृष्टेन शून्यखेटके पिप्पलतरोस्तले वेदिकाबन्धं विधाय" सा प्रतिमा मण्डिता । ततः प्रभृति श्रावकसङ्घाश्चातुर्वर्ण्यलोकाश्चतुर्दिगन्तादागत्य यात्रो
सर्व सूत्रयितुं प्रवृत्ताः । तत्र अभयकीर्ति- भानुकीर्ति-आंबा-राजकुलास्तत्र मठपत्याचार्याश्चैत्यचिन्तां कुर्वते। 15 अथ प्राग्वाटवंशावतंसेन थेहात्मजेन साधुहालाकेन निरपत्येन पुत्रार्थिना विरचितमुपयाचितकम्-यदि
मम सूनुर्जनिता तदात्र चैत्यं कारयिष्यामीति । क्रमेणाधिष्ठायकत्रिदशसान्निध्यतः पुत्रस्तस्योदपद्यत कामदेवाख्यः । ततश्चैत्यमुच्चैस्तरशिखरमचीकरत्साधुहालाकः । क्रमात्साधुभावडस्य दुहितरं परिणायितः कामदेवः । पित्रापि डाहाग्रामादाहूय मलयसिंहादयो देवार्चकाः स्थापिताः । महणियाभिख्यो “मेदः खाङ्गुली भगवदुद्देशेन कृन्तवान-किलाहमस्य भगवतोऽहलीवर्द्धितः सेवक इति । भगवद्रिलेपनचन्दनलगनाच्च तस्याङलिः पनर्नवीबभूव । तमति20 शयमतिशायिनं निशम्य श्रीजयसिंहदेवो मालवेश्वरः स्फुरद्भक्तिप्राग्भारभाखरान्तःकरणः खामिनं स्वयमपूपुजत् ।
देवपूजार्थं च चतुर्विंशतिहलकृष्यां भूमिमदत्त मठपतिभ्यः । द्वादशहलवायां चावनी देवार्चकेभ्यः प्रददाववन्तिपतिः । अद्यापि दिग्मण्डलव्यापिप्रभाववैभवो भगवानभिनन्दनदेवस्तत्र तथैव पूज्यमानोऽस्ति ।
अभिनन्दनदेवस्य कल्प एष यथाश्रुतम् । अल्पीयान् रचयांचने श्रीजिनप्रभसूरिभिः ॥ १॥
॥ इति सकलभूवलयनिवासिलोकाभिनन्दनस्य श्रीअभिनन्दनदेवस्य कल्पः ॥ 25
॥ ० ५३, अ० १८॥
1C समानयद्भिः। 2 P°तरोर्मूले। अभिनन्दनदेवकल्पः । इत्येव संक्षिप्तोल्लेखः ।
निधाय । 4 P नारयतत्राम। 5BC मेदुः । ।P प्रतौ इति