________________
नन्दीश्वरद्वीपकल्पः ।
३९ ॥
४० ॥
तत्र द्वयो रतिकराचलयोर्दक्षिणस्थयोः । शक्रस्येशानस्य पुनरुत्तरस्थितयोः पृथक् ॥ ३३ ॥ अष्टानां महादेवीनां राजधान्योऽष्टदिक्षु ताः । लक्षाबाधा लक्षमाना जिनायतनभूषिताः ॥ ३४ ॥ सुजाता सौमनसा चार्चिर्माली च प्रभाकरा । पद्मा शिवा शुच्यञ्जने चूता चूतायतंसिका ॥ ३५ ॥ गोस्तूपा - सुदर्शने अप्यमलाप्सरसौ तथा । रोहिणी नवमी चाथ रत्ना रत्नोच्चयापि च ॥ ३६ ॥ सर्वरत्नरत्नसञ्चया (?) वसुर्वसुमित्रिका | वसुभागापि च वसुन्धरा नन्दोत्तरे अपि ॥ ३७ ॥ नन्दोत्तरकुरुर्देवकुरुः कृष्णा ततोऽपि च । कृष्णराजी रामारामरक्षिताः प्राक्क्रमादमूः ॥ ३८ ॥ सर्वर्द्धयस्तासु देवाः कुर्वते सपरिच्छदाः । चैत्येष्वष्टाहिकाः' पुण्यतिथिषु' श्रीमदर्हताम् ॥ प्राच्येऽञ्जनगिरौ शक्रः कुरुतेऽष्टाहिकोत्सवम् । प्रतिमानां शाश्वतीनां चतुद्वारे जिनालये ॥ तस्य चाद्रेश्चतुर्दिक्स्थमहावापीविवर्त्तिषु । स्फाटिकेषु दधिमुखपर्वतेषु चतुर्ष्वपि ॥ ४१ ॥ चैत्येष्वर्हत्प्रतिमानां शाश्वतीनां यथाविधि । चत्वारः शक्रदिक्पालाः कुर्वतेऽष्टाहिकोत्सवम् ॥ ४२ ॥ ईशानेन्द्रस्त्वौत्तर हेऽञ्जना विदधाति तम् । तल्लोकपालास्तद्वापीदध्यास्याद्विषु कुर्वते ॥ ४३ ॥ चमरेन्द्रो दाक्षिणात्येऽञ्जनाद्रावुत्सवं सृजेत् । तद्वाप्यन्तर्दधिमुखेष्वस्य दिक्पतयः पुनः ॥ ४४ ॥ पश्चिमेऽञ्जनले तु बलीन्द्रः कुरुते महम् । सद्दिकूपालास्तु तद्वाप्यन्तर्भाग्दधिमुखाद्रिषु ॥ ४५ ॥ वर्षं दीपदिनारब्धानुपवासान् कुहूतिथौ । कुर्वन्नन्दीश्वरोपास्त्यै श्रायसी श्रियमार्जयेत् ॥ ४६ ॥ भक्त्या चैत्यानि वन्दारुतत्स्तोत्रस्तुतिपाठभाकू । नन्दीश्वरमुपासीनोऽनुपयहस्तरेत्तराम् ॥ ४७ ॥ प्रायः पूर्वाचार्य‘प्रथितैरेवायमादितः श्लोकैः । श्रीनन्दीश्वरकल्पो लिखित इति श्रीजिनप्रभाचार्यैः ॥ ४८ ॥
॥ इति श्रीनन्दीश्वरकल्पः ॥
॥ मं० ४९, अ० १० ॥
४९
1 B C °कििाः । 2 B पुण्यनिधिषु । 3 B विवर्षिषुः C वचर्चिषु; Pa विचर्चिषु। 4 B पाठकान् । 5 B कथिते । वि० क० ७
5
10
15