________________
विविधतीर्थकल्पे
४८. व्यात्रीकल्पः ।
यः स्यादाराधको जन्तुः श्रेयस्तत्कीर्तनाद् ध्रुवम् । इत्यालोच्य हृदा किंचिद्व्याघ्रीकल्पं वदाम्यहम् ॥ १ ॥ श्रीशत्रुञ्जना मेयचैत्यवप्रस्य कर्हिचित् । प्रतोलीद्वारमावृत्य काचिव्याघ्री समास्थिता ॥ २ ॥ निरीक्ष्य निश्चलाङ्गीं तामातङ्कातुरमानसाः । जनाः श्राद्धा जिनं नन्तुं बहिस्तो न डुढौकिरे || ३ || 5 राजन्यः साहसी कोऽपि तस्याः पार्श्वमुपासृपत् । सा तु तं प्रति नाकार्षीत् हिंसाचेष्टां मनागपि ॥ ४ ॥ विश्वस्य बाहुजस्तस्य कुतोऽप्यानीय तत्पुरः । आमिषं मुमुचे सा च दृशापि न तदस्पृशत् ॥ ५ ॥ अथ श्राद्धजनोऽप्येत्य त्यक्तमीस्तत्पुरः क्रमात् । तरसा सरसं भक्ष्यं पानीयं चोपनीतवान् ॥ ६ ॥ तदप्यनिच्छन्तीं दृष्ट्वा तां दध्यौ जनता हृदि । नूनं जातिस्मरैषाऽत्र तीर्थेऽनशनमाददे ॥ ७ ॥ श्लाघ्यस्तिर्यग्भवोऽप्यस्याश्चतुर्द्धाऽऽहारमुक्तितः । एकाग्रचक्षुषा चैषा देवमेव निरीक्ष्यते ॥ ८ ॥ 10 अभ्यर्च्य गन्धपुष्षाद्यैः श्राद्धाः साधर्मिकीधिया । सम्भावयां बभूवुस्तां स्फीतसङ्गीतकोत्सवैः ॥ ९ ॥ निराकारं प्रत्याख्यातं तेऽथ तस्या अचीकरन् । मनसैव श्रद्दधाना सा स्वीचक्रे च तन्मुदा ॥ १० ॥ इत्थं सा तीर्थमाहात्म्यात्समृद्ध्यच्छुद्धवासना । दिनानुपोष्य सप्ताष्टान्नष्टपापा ययौ दिवम् ॥ ११ ॥ चन्दनागरुभिस्तस्था वपुः संस्कार्य संज्ञिनः । प्रतोल्या दक्षिणे पक्षे शैली मूर्ति न्यवीविशन् ॥ १२ ॥ तीर्थचूडामणिर्जीयात्सैष श्रीविमलाचलः । भवेयुर्यत्र तिर्यञ्चोऽप्येवमाराधिकाग्रिमाः ॥ १३ ॥ 15 व्याघ्रीकल्पमिमं कृत्वा श्रीजिनप्रभसूरयः । पुण्यं यदार्जयंस्तेन श्रीसङ्घोऽस्तु सुखास्पदम् ॥ १४ ॥
९०
॥ इति व्याघ्रीकल्पः ॥
॥ मं० १४ ॥
1BC भक्षं । 2 C निरीक्षते । 3 B अध्यर्च्य । 4 B ते च; C तथा ।