________________
हिंपुरीतीर्थकल्पः।
८३ अन्यदा वङ्कचूल उज्जयिन्या खात्रपातनाय चौर्यवृत्त्या कस्यापि श्रेष्ठिनः सद्मनि गतः । कोलाहलं श्रुत्वा 'वलितः । ततो देवदत्ताया गणिकाया गाणिक्यमाणिक्यभूताया गृहं प्राविशन् । दृष्टा सा कुष्ठिना सह प्रसुप्ता । ततो निःसृत्य गतः पुरः श्रेष्ठिनो वेश्म । तत्रैकविशोपको लेख्यके त्रुट्यतीति परुषवाग्भिनिर्भर्त्य निःसारितो गेहात् पुत्रः श्रष्ठिना । विरराम च यामिनी । यावद्राजकुलं यामीत्यचिन्तयत् , तायदुज्जगाम धामनिधिः । पल्लीशश्च निःसृत्य नगरागोधां गृहीत्वा तरुतले दिनं नीत्वा पुना रात्रावागात् । राजभाण्डागाराबहिर्गोधापुच्छे विलाय प्राविशत्कोशम् । दृष्टो 5 राजाग्रमहिप्या रुष्टया, पृष्टश्च कस्त्वमिति । तेनोचे चौर इति । तयोक्तम्-मा भैपीः, मया सह सङ्गमं कुरु । सोऽवादीत्का त्वम् ? । साऽप्यूचेऽयमहिष्यमिति । चौरोऽवादीद्ययेवं तर्हि ममाम्बा भवसि, अतो यामीति निश्चिते तया खाङ्गं नखैर्विदार्य पूरकृतिपूर्वमाहूता आरक्षकाः । गृहीतस्तैः । राज्ञा चानुनयार्थमागतेन तदृष्टम् । राज्ञोक्ताः खपौ(पु)रुषाःमैनं गाढं कर्वीध्वमिति । तै रक्षितः । प्रातः पृष्टः क्षितिभृता । तेनाप्युक्तम्-देव! चौर्यायाहं प्रविष्टः । पश्चादेवभा ण्डागारे देव्या दृष्टोऽस्मि । यायदन्यन्न कथयति तावतुष्टो विदितवेद्यो नरेन्द्रः स्वीकृतः पुत्रतया, स्थापितश्च सामन्त-10 पदे । देवी च विडम्ब्यमाना रक्षिता वाचलेन । अहो! नियमानां शुभफलमित्यनवरतमयमध्यासीत । प्रेषितश्चान्यदा राज्ञा कामरूपभूपसाधनार्थम् । गतो युद्धे । घातर्जर्जरितो विजित्य तमागमत् खस्थानम् । व्याहृता च राज्ञा वैद्याः । यावद्र्ढोऽपि घातन्त्रणो विकसति । तैरुक्तम्-देव ! काकमांसेन शोभनो भवत्ययम् । तस्य च जिनदासश्रावकेण साई प्रागेव मध्यमासीत् । ततस्तदानयनाय प्रेषितः पुरुषः पुरुषाधिपतिना, येन तद्वाक्याकाकमांसं भक्षयतीति । तदाहूतश्च जिनदासो ऽवन्तीमागच्छन्नुभे दिव्ये सुदत्यौ रुदत्यावद्राक्षीत् । तेन पृष्टे-किं रुदिथः । ताभ्या-15 मुक्तम्-अस्माकं भर्ता सौधर्माच्युतः । अतो राजपुत्रं वङ्कचूलं प्रार्थयावहे । परं त्वयि गते स मांसं भक्षयिता ततो गन्ता दुर्गतिं तेन रुदिवः । तेनोक्तम्-तथा करिष्ये यथा तन्न भक्षयिता । गतश्च तत्र । राजोपरोधाद्वङ्काचूलमवोचत्गृहाण बलिभुपिशितम् । पटूभूतः सन् प्रायश्चित्तं चरेः । वङ्कचूलोऽवोचत्-जानासि त्वं यदाचर्याप्यकार्य प्रायश्चित्तं ग्राह्यम् , ततः प्रागेव तदनाचरणं श्रेय इति । 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।' इति वाक्यान्निषिद्धो नृपतिः । विशेषप्रतिपन्ननिवहश्वाऽच्युतकल्पमगमत् । वलमानेन जिनदासेन ते देव्यौ तथैव रुदत्यौ दृष्ट्वा प्रोक्तम्-20 किमिति रुदिथः । न तावत्स मांसं ग्राहितः। ताभ्यामभिदधे-स ह्यधिकाराधनावशादच्युतं प्राप्तस्ततो नाऽभवदस्मद्भतेति । एवं जिनधर्मप्रभावं सुचिरं परिभाब्य जिनदासः खावासमाससादेति । एवं चास्य निर्मापयिता वङ्कचूल एवाजनि जनितजगदानन्दः ।। डिंपुरीतीर्थरत्नस्य कल्पमेतं यथाश्रुतम् । किश्चिद्विरचयां चक्रुः श्रीजिनप्रभसूरयः ॥ १ ॥
॥ इति श्रीचेल्लणपार्श्वनाथस्य कल्पः॥
॥ अं० ११६, अ० २६ ॥
1B चलितः। 2D 'स' नास्ति ।