________________
ढिंपुरीतीर्थकल्पः ।
४३. टिंपुरीतीर्थकल्पः। श्रीपार्श्व' चेल्लणाभिख्यं ध्यात्वा श्रीवीरमप्यथ । कल्पं श्रीडिंपुरी तीर्थस्याभिधाये यथाश्रुतम् ॥ १ ॥ पारेतजनपदान्तश्चर्मणवत्यास्तटे महानद्याः । नानाघनवनगहना जयत्यतौ दिपुरीति पुरी ॥ २ ॥
अत्रैव भारते वर्षे विमलयशा नाम भूपतिरभूत् । तस्य सुमङ्गलादेव्या सह विषयसुखमनुभवतः क्रमाजातमपत्ययुगलम् । तत्र पुत्रः पुष्पचूलः, पुत्री पुष्पचूला । अनर्थसार्थमुत्पादयतः पुष्पचूलस्य कृतं लोकै-5 वंचूल इति नाम । महाजनोपालब्धेन राज्ञा रुषितेन निःसारितो नगरानचूलः । गच्छंश्च पथि पतितो भीषणायामटव्यां सह निजपरिजनेन स्वस्रा च स्नेहवशया । तत्र च क्षुत्पिपासादितो दृष्टो भिल्लैः । नीतः खपल्लीम् , स्थापितश्च पूर्वपल्लीपतिपदे पर्यपालयद्राज्यम् , अलुण्टयद्रामनगरसार्थादीन् । ___अन्यदा सुस्थिताचार्या अर्बुदाचलादष्टापदयात्रायै प्रस्थितास्तामेव सिंहगुहानामपल्ली सगच्छाः प्रापुः । जातश्च वर्षाकालः; अजनि च पृथ्वी जीवाकुला । साधुभिः सहालोच्य मार्गयित्वा वङ्कचूलाद्वसतिं स्थितास्तत्रैव 10 सूरयः । तेन च प्रथममेव व्यवस्था कृता-मम सीमान्तधर्मकथा न कथनीया । यतो युष्मकथायामहिंसादिको धर्मः3; न चैवं मल्लोको निर्वहति । एवमस्तु इति प्रतिपद्य तस्थुरुपाश्रये गुरवः । तेन चाहूय सर्वे प्रधानपुरुषा भणिताः अहं राजपुत्रस्ततो मत्समीपे ब्राह्मणादय आगमिष्यन्ति । ततो भवद्भिर्जीववधो मांसमद्यादिप्रसङ्गश्च पल्या मध्ये न कर्तव्यः । एवं च कृते यतीनामपि भक्तपानमजुगुप्सितं कल्पत इति । तैस्तथैव कृतं यावञ्चतुरो मासान् । प्राप्तो विहारसमयः । अनुज्ञापितो वङ्काचूलः सूरिभिः-'समणाणं सउणाण'मित्यादि वाक्यैः । ततस्तैः सह चलितो वङ्काचूल: । खसीमां 15 प्रापुषा तेन विज्ञप्तम् -वयं परकीयसीमायां न प्रविशाम इति । भणितः सूरिभिः--वयं सीमान्तरमुपेताः, तकिमुपदिशामस्तुभ्यम् । तेनोक्तम्-यन्मयि निर्वहति, तदुपदेशेनानुगृह्यतामयं जनः । ततः सूरिभिश्चत्वारो नियमा दत्तास्तद्यथाअज्ञातफलानि न भोक्तव्यानि, सप्ताष्टानि पदान्यपसृत्य घातो देयः । पट्टदेवी नाभिगन्तव्या । काकमांसं च न भक्षणीयमिति । प्रतिपन्नाश्च तेन ते । गुरून् प्रणम्य स स्वगृहानागमत् ।
अन्यदा गतः सार्थस्योपरि धाट्या । शकुनकारणान्नागतः सार्थः । त्रुटितं च तस्य पथ्यदनम् । पीडिताः क्षुधा 20 राजन्याः । दृष्टश्च तैः किंपाकतरुः फलितः । गृहीतानि फलानि । न जानन्ति ते तन्नामधेयमिति तेन न भुक्तानि । इतरैः सर्वैर्बुभुजिरे । मृताश्च तैः किंपाकफलैः । ततश्चिन्तितं तेनाहो ! नियमानां फलम् । तत एकाक्येवागतः पल्लीम् । रजन्यां प्रविष्टः स्वगृहम् । दृष्टा पुष्पचूला दीपालोकेन पुरुषवेषा निजपल्या सह प्रसुप्ता । जातस्तस्य कोपस्तयोरुपरि । द्वावप्येतौ खड्गप्रहारेण छिनीति यावदचिन्तयत्तावत्स्मृतो नियमः । ततः सप्ताष्टपदान्यपक्रम्य धातं ददत् खाकृतमुपरि खङ्गेन । व्याहृतं स्वस्रा 'जीवतु वङ्कचूल' इति तद्वचः श्रुत्वा लज्जितोऽसायपृच्छत् किमेतदिति ? । सापि 25 'नटवृत्तान्तमचीकथत् ।।
___ कालक्रमेण तस्य तद्राज्य शासतस्तत्रैव पल्ल्यां तस्यैवाचार्यस्य शिष्यौ धर्मऋषि-धर्मदत्तनामानौ कदाचिद्वर्षा रात्रमवास्थिषाताम् । तत्र तयोरेकः साधुस्त्रिमासक्षपणं विदधे । द्वितीयश्चतुर्मासक्षपणम् । वङ्कचूलस्तु तद्दत्तनियमानामायतिशुभ फलतामवलोक्य व्यजिज्ञपत्-भदन्तौ ! मद्नुकम्पया कमपि पेशलं धर्मोपदेशं दत्तम् । ततस्ताभ्यां चैत्यविधापनदेशना क्लेशनाशिनी विदधे । तेनापि शराविकापर्वतसमीपवर्तिन्यां तस्यामेव पल्ल्यां चर्मणवतीसरित्तीरे 30 कारितमुच्चैस्तरं चारुचैत्यम् । स्थापितं तत्र श्रीमन्महावीर बिम्यम् । तीर्थतया च रूढं तत् । तत्र यान्ति स्म चतुर्दिग्भ्यः सङ्घाः।
4 Pa°पलब्धेन। 5 Pa विज्ञप्ति। 6PA प्रपन्नास्तेन ।
1 Pa पा । 2 Pa पुर। 3Pu°दहना। 7 B दद्यात् । 8 B तद्। 9 Pa °फलशुभता ।
वि.क.११