________________
वस्तुपाल - तेजः पालमन्त्रिकल्पः ।
७९
पढमं संतिगणहरो चक्काउ हो ऽगसाहुपरिअरिओ | 'बत्तीसजुगेहिं तओ सिद्धा संखिज्जमुणिकोडी ॥ १६ ॥ संखिज्जा मुणिकोडी अडवीसजुगेहिं कुंथुनाहस्स । अरजिणचउवीसजुगा बारसकोडीओं सिद्धाओं ॥ १७ ॥ मल्लिक्स वि वीसजुगा छकोडि. मुणिसुव्वयस्स कोडितिगं । नमितित्थे इगकोडी सिद्धा तेणेस कोडिसिला ॥१८॥ छत्ते सिरंमि गीवा वच्छे उअरे कडीइ ऊरुसु । जाणू कहमवि जाणूनीया सा वासुदेवेण ॥ १९ ॥ इअ कोडिसिलातित्थं तिहुअणजणजाणिअनिव्वुआवत्थं । सुरनरखेअरमहिअं भवियाणं कुणउ कल्लाणं ॥ २० ॥ 5 ॥ इति श्रीकोदिशिलातीर्थकल्पः ॥
॥ अं० २४, अ० ६ ॥
४२. वस्तुपाल-तेजःपालमन्त्रिकल्पः ।
श्रीवस्तुपाल-तेजःपालौ मन्त्री रावुभावास्ताम् । यौ भ्रातरौ प्रसिद्धौ कीर्तनसंख्यां तयोर्धूमः ॥ १ ॥
पूर्वं गुर्जर धरित्रीमण्डनायां मण्डलीमहानगर्यां श्रीवस्तुपाल - तेजःपालाद्या वसन्ति स्म । अन्यदा श्रीम - 10 त्पत्तनवास्तव्यप्राग्वादान्वयठकुरश्रीचण्डपात्लज' ठकुरश्री चण्डप्रसादाङ्गज मत्रिश्रीसोमकुलावतंस ठक्कुरश्रीआसराजनन्दनौ कुमारदेवी कुक्षिसरोवरराजहंसौ श्रीवस्तुपाल - तेजः पालौ श्रीशत्रुञ्जय - गिरिनारादितीर्थयात्रायै प्रस्थितौ । हृडालाग्रामं गत्वा यावत्स्यां विभूर्ति' चिन्तयतस्ताबल्लक्षत्रयं सर्वखं जातम् । ततः सुराष्ट्राखसौस्थ्यमाकलय्य लक्षमेकमवन्यां निधातुं निशीथे महाऽश्वत्थतलं खानयामासतुः । तयोः खानयंतोः कस्यापि प्राक्तनः कनकपूर्णः शौल्बकलशो निरगात् । तमादाय श्रीवस्तुपालस्तेजः पालजायामनुपमादेवीं मान्यतयाऽपृच्छत् - 15 क्वैतन्निधीयत ? इति । तयोक्तम् - गिरिशिखर एवैतदुच्चैः स्थाप्यते यथा प्रस्तुतनिधिवन्नान्यसाद्भवति । तच्छ्रुत्वा श्रीबस्तुपालस्तद् द्रव्यं श्रीशत्रुञ्जयोज्जयन्तादायव्ययत् । कृतयात्री व्यावृत्तो धवलक्ककपुरमगात् ।
अत्रान्तरे महणदेवी नाम कन्यकुलेश्वरसुता, [या] जनकात् कलिकापदे गूर्जर धरित्रीमवाप्य तदाधिपत्यं भुक्त्वा मृता सती तत्रैव देशाधिष्ठात्री देवता समजनि । सैकदा स्वमे वीरधवलनृपस्याचीकथत्-यद्वस्तुपाल-तेज:पाल राज्यचिन्तकप्राग्रहरौ विधाय सुखेन राज्यं शाधि । इत्थं कृते राज्य-राष्ट्रवृद्धिस्तव भवित्री - इत्यादिश्य खं च 20 प्रकाश्य तिरोदधे देवी । प्रातरुत्थाय नृपतिर्वस्तुपाल-तेजःपालावाहूय सत्कृत्य च ज्यायसः स्तम्भतीर्थ - धवलक्कयोराधिपत्यमदात् । तेजःपालस्य तु सर्वराज्यव्यापारमुद्रां ददौ । ततस्तौ षड्दर्शनदान - नानाविधधर्मस्थानविधापनादिभिः सुकृतशतानि चिन्वन्तौ निन्यतुः समयम् ।
तथा हि-लक्षमेकं सपादं जिनबिम्बानां कारितम् । अष्टादश कोट्यः षण्णवतिर्लक्षाः श्रीशत्रुञ्जयतीर्थे द्रविणं व्यथितम् । द्वादश कोढ्योऽशीतिलक्षाः श्री उज्जयन्ते । द्वादशकोट्यस्त्रिपञ्चाशल्लक्षा अर्बुदशिखरे लूणिगवसत्याम् 125 नवशतानि चतुरशीतिश्व पौधशालाः कारिताः । पञ्चशतानि दन्तमयसिंहासनानाम्, पञ्चशतानि पञ्चोत्तराणि समवसरणानां जादरमयानाम् । ब्रह्मशालाः सप्तशतानि सप्तदशानि । सत्राकाराणां सप्तशती । तपखि- कापालिकमठानां सर्वेषां भोजननिर्वापादिदानं कृतम् । त्रिंशच्छतानि ह्युत्तराणि माहेश्वरायतनानाम् । त्रयोदशशतानि चतुरुत्तराणि शिखरबद्धजैनप्रासादानाम् । त्रयोविंशतिः शतानि जैनचैत्योद्धाराणाम् । अष्टादशकोटिसुवर्णव्ययेन सरस्वती भाण्डागाराणां स्थानत्रये भरणं कृतम् । पञ्चशती ब्राह्मणानां नित्यं वेदपाठं करोति स्म । वर्षमध्ये संघपूजात्रितयम् । पञ्चदशशती 30
1 Pa छत्तीस° । 2 Pa नास्ति; B चन्द्रपात्मज । 3 B चन्द्रप्रसा° । 4 C 'विभूर्ति' नास्ति ।