________________
७४
विविधतीर्थकल्पे
कर्माणि निर्ममे । दारकश्च समित्पत्रपुष्पफलाद्याजहार । राज्ञि चिन्ताचान्तचेतसि कुलपतिः कनकं मार्गयितुमगात् । दत्तं तस्मै राज्ञा काञ्चनसहस्रष्टुम् । कुलपतौ स्तोकमिति कुप्यत्यङ्गारकोऽवोचद् भोः ! किमर्थं पत्नीमपत्यं च व्यक्रीणीथाः । अत्रत्यं चन्द्रशेखरं नरेश्वरं किं न याचसे वसुलक्षम् । राज्ञोक्तम् - अस्मत्कुले नेदं सिध्यति । डोम्बस्यापि वेश्मनि कर्मकरत्वमुररीकृत्य दास्यामि तव काञ्चनलक्ष मिति । ततः कर्म कर्तुं प्रवृत्तश्चण्डालेन श्मशानरक्षणे नियुक्तः । 5 ततः परं ताभ्याममराभ्याभकारि मारिः पुर्याम् । यथा भूपादेशानीतमान्त्रिकेण राक्षसीप्रवादमारोप्य सुतारा मण्डलमानीय रासभमारोपिता, यथा शुकः पावके दत्तझम्पोऽपि न दग्धः, यथा पितृवने वटोत्कलम्बितं नरं तटे च रुदन्तीं सुदतीं विलोक्य नराद्विधाघरापहारवृत्तमाकर्ण्य तमुन्मोच्य तत्स्थाने हरिश्चन्द्रः खं नियुज्य होमकुण्डे ' खमांसखण्डानि आर्पयत्, यथा ‘कुण्डमध्यान्मुखं निर्गतं शृगालश्वारटत्, तापसेन यथा व्रणरोहणमवनीपतेरकारि, यथा च पुष्पाणि गृह्णन् रोहिताश्वो निःशुकं' दन्दशूकेन दष्ट: ' संस्कारयितुमानीताच्च तस्मात्कण्टिकमयाचिष्ट नृपतिः, यथा च सत्त्वपरीक्षानि10 र्वहणप्रमुदितप्रकटितनिजरूपत्रिदशकृतपुष्पवृष्टिजयजयध्वनिः सर्वजनैः प्रशंसितः सात्त्विकशिरोमणिरिति, यथा च बहिर्मुखमुखाद्वराहादि पुष्पवृष्टिपर्यन्तं दिव्यमायाविलसितमवबुध्य यावच्चेतसि चमत्कृतस्तावत्स्वं स्वपुर्यां सदसि सिंहासनस्थं सपरिवारमपश्यत् । तदेतद्देवी कुमार विक्रयादि दिव्यपुष्पवर्षावसानं श्रीहरिश्चन्द्रस्य चरित्रं सत्त्वपरीक्षा निकषोऽस्यामेव पुर्यामजनि जनजनितविस्मयम् ।
यच्च काशीमाहात्म्ये प्रथमगुणस्थानीयैरभिधीयते - यद् वाराणस्यां कलियुगप्रवेशो नास्ति । तथाऽत्र प्राप्तनिघनाः 15 कीटपतङ्गभ्रमरादयः कृतानेकचतुर्विधहत्यादिपाप्मानोऽपि मनुष्यादयो वा शिवसायुज्यमिति प्रतीत्यादियुक्तिरिक्तं तदस्माभिः श्रद्धातुमपि दुःशकं किं पुनः कल्पे जल्पितुमित्युपेक्षणीयमेवैतत् ।
धातुवाद-रसबाद-खन्यवाद मन्त्रविद्याविदुराः शब्दानुशासन- तर्क- नाटका -ऽलङ्कार- ज्योतिष- चूडामणि- निमित्तशास्त्रसाहित्यादिविद्यानिपुणाश्व पुरुषा अस्यां परिव्राजकेषु जटाधरेषु योगिषु ब्राह्मणादिचातुर्वण्यें च नैके रसिकमनांसि प्रीणयन्ति । चतुर्दिगन्तदेशान्तरवास्तव्याश्चास्यां जना दृश्यन्ते सकलकलापरिकलनकौतूहलिनः ।
20
वाराणसी चेयं सम्प्रति चतुर्धा विभक्ता दृश्यते । तद् यथा - देववाराणसी, यत्र विश्वनाथा - सादः । तन्मध्ये चाश्मनं जैनचतुर्विंशतियहं पूजारूढमद्यापि विद्यते । द्वितीया राजधानी वाराणसी यत्राद्यत्वे यवनाः । तृतीया मदनवाराणसी; चतुर्थी विजयवाराणसीति । लौकिकानि च तीर्थानि अस्यां क इव परिसंख्यातुमीश्वरः ।
अन्तर्वणं दन्तस्वातं" तडागं निकषा श्रीपार्श्वनाथस्य चैत्यमनेकप्रतिमाविभूषितमास्ते । अस्याममलपरिमलभरा25 कृष्टभ्रमरकुलसङ्कुलानि सरसीषु नानाजातीयानि कमलानि ।
अस्यां च प्रतिपदमकुतोभयाः सञ्चरिष्णवो निचाय्यन्ते शाखामृगा मृगधूर्ताश्च ।
अस्याः क्रोशत्रितये धर्मेक्षानामसंनिवेशो यत्र बोधिसत्त्वस्योच्चैस्तरशिखर चुम्बितगगनमायतनम् । अस्याश्च सार्धयोजनद्वयात्परतश्चन्द्रावती नाम नगरी, यस्यां श्रीचन्द्रप्रभोगर्भावतारादिकल्याणिकचतुष्टयमखिलभुवनजनतुष्टिकरमजनिष्ट !
गङ्गोदकेन च जिनद्वयजन्मना च प्राकाशि काशिनगरी न गरीयसी कैः । तस्या इति व्यधित कल्पमनल्पभूतेः श्रीमान् जिनप्रभ इति प्रथितो मुनीन्द्रः ॥ १ ॥ ॥ इति श्रीवाराणसीनगरीकल्पः ॥
॥ मं० ११३, अ० २३ ॥
30
दृष्टः ।
B होमखण्डैः । 4 BD कुण्डमुखा । 3 P निःशुक 16 BP 9 B P इद्द | 10 P दण्डख्यातं
1 P& 'लक्ष' नास्ति 1 2 ' प्रवृत्तः' नास्ति Pa। 3 7 P 'यथा' नास्ति । 8 B'यद्' नास्ति ।