________________
[ पा० ४. सू० १७३ ] "नृपतेः प्रतिषिद्धमेव तत् कृतवान् पक्तिरथो विलय यत् । अपये पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥" [इति रघुवंशे नवमस ] मृगयार्थ चरन् दशरथः मुनिपुत्रेण श्रवणेन आनू5 र्यमाणस्य घटस्य शब्दं श्रुत्वा तच राजशब्दं मत्वा तमुद्दिश्य शब्दवेधी बाणः प्रक्षिप्तः तेनासौ मृतः । तद्विषये एवेदं कविनोक्तम् । अस्याशयः- दशरथो गजशब्दमपि मत्वा यद्बाण प्रक्षिप्तवान् तत् नृपतेः कृते प्रतिषिद्धमेव, युद्धादन्यत्र गजस्यावध्यत्वं नृपतेरुक्तम्, तथापि च तेन यदिदं कृतम्, 10 तेनेदं सिद्धयति राजसा जनाः श्रुतिज्ञानसत्त्वेऽपि अप प्रवृत्ताः भवन्तीति । दशार्थेऽत्र पङ्क्तिशब्दस्य प्रयोगः । तथा च कोशेऽपि ----
श्री सिद्ध हेमचन्द्र शब्दानुशास ने षष्ठोऽध्यायः
15
"क्तिर्दशाक्षरं छन्दो दशसंख्यादिषु । स्त्रियामू” [ इति मेदिनी]
अत्रादिपदेन सन्निवेशविशेषस्य संग्रहः । अन्येषामपि संख्यावाचिनां लक्षफोटयादिशब्दानामत्र बहुवचनेन संग्रह: उक्त एव । तदेतत् सर्वे निपातनाश्रयणस्य फलत्वेन संग्रहीतुमाह-यदत्र लक्षणेनानुत्पन्नं तत् सर्वे निपातनात् सिद्धमिति । अंलाक्षणिक कार्यजातं साधयितुमेव 20 हि निपातनमाश्रीयत इति भावः । एषु कस्य शब्दस्यैकवचनान्तयं कस्य सर्वविभक्तयन्तत्वमित्यादि कथं ज्ञेयमित्यत्र विनिगमकमाह-लिङ्गसंख्यानियमश्चेति ।
'विंशत्याद्याशतात् द्वन्द्वे सा चैक्ये द्वन्द्वमेययोः ' [स्त्री० लि० ७ ] इति लिङ्गानुशासनवचनेनैषां लिङ्गसंख्या25 दिनियम उक्तः । विवृतं चेदं वचनं स्वोपशवृत्त | वित्थम् - विंशत्याद्या विंशतिरित्येवमादिका संख्या संख्येये संख्याने च वर्तमाना स्त्रीलिङ्गा । इयं विंशतिर्भटाः, इयं विंशति
नाम् । विंशत्या घटैः घटानां वा । एवं त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, सप्ततिः, अशीतिः, नवतिः । षष्टेः 30 स्त्रीलिङ्गत्वं शतादीनां पुं-नपुंसक्तादि वक्ष्यते । विंशत्याद्येति
किम् ? एक:, एका, एकम्; हो, द्वे द्वे; त्रयः, तिस्रः, श्रीणिः चत्वारः, चतस्रः, चत्वारि । गुणवृत्तित्वादाश्रयलिङ्गता । नन्तसंख्यायास्त्वलिङ्गत्वं वक्ष्यते ।
आशताद् द्वन्द्वे इन्हे समासे वर्तमाना विंशत्याद्या 35 संख्या आशताच्छतादर्वा नवनवतिपर्यन्ताः स्त्रीलिङ्गाः । इन्द्रः समाहारो वचनं प्रयोजयति । इतरेतरयोगे परवल्लिङ्गःतयैव स्त्रोत्वसिद्धेः । एकल विंशतिश्व इयमेकविंशतिः । एकविंशत्या । एवं द्वाविंशतिः, यावन्नवनवतिः । आशता
३३५
दिति किम् ? एकच शतं च एकशतमित्यादौ द्वन्द्व कत्वेति [ न०लि०९] नपुंसकत्वमेव । द्वन्द्र इति किम् पञ्चानां विंशतिनां समाहारः इदं पञ्चविंशति । 'अन्यस् सर्वो नपुंसकः " [स्त्रोलि०५] इति नपुंसकत्वमेव, 'द्वन्द्वै कत्वेति' [ न०लि०९ ] नपुंसकत्वापवादो योगः ।
“सा चये द्वन्द्वमेययोः" सा पुनविंशताद्या संख्य द्वन्द्वे समासे मेये संख्येये च वर्तमाना ऐक्ये एकत्व एवं प्रयोक्तव्या । द्वन्द्व- इतरेतरयोगो वचनं प्रयोजयति । समा हारे हि सिद्धमेवैक्यम् । एकश्च विंशतिश्व एकविंशति ६टाः पयनां वा । एवं द्वाविंशतिः त्रयोविंशतिः, चतु विंशतिः । एकत्रिंशत्, एकचत्वारिंशत्, एकपञ्चाशत् एकषष्टिः, एकसप्ततिः, एकाशीतिः, एकनवतिः । एक शतम्, द्विशतम्, एकसहस्रम् द्विसहस्रम् | एकलक्षम्, द्विलक्षमित्यादि । संख्येये खल्वपि विंशतिर्धयः, विंशत्या घटैः । एवं त्रिंशत्, त्रिशता, याचन्नवतिः नवत्या । शतं घटाः, शतेन घट:, एवं सहस्रम् सहस्रेण । लक्षम्, लक्षेणेत्यादि ।
द्वन्द्व मेययोरिति किभू १ द्वे विंशती घटानाम्, तिस्रो विंशतयो गवाम् । विंशत्यादेः संख्यास्थानस्यैव द्वित्व-बहुत्वविवक्षायां द्विवचन बहुवचने । यद् वामनः--- "त्रिंशत्याद्येकार्थी स्त्रियां तु नित्यं नपुंसकेऽदन्ता । संख्या शतादिरिष्टा द्वित्वाद्यर्थे च संख्यायाम् ॥"
|
सा चेति प्रसिद्धसंख्यापरामर्शात् तत्प्रत्यासत्या प्रसिद्धसंख्यारूपद्वन्द्वपरिग्रहः इतीह न भवति । एकश्चैत्राय दीयतां विंशतिमैं प्रायेत्येकविंशती आभ्यां दीयतामिति द्विवचनमेव भवति । “द्वन्द्वे द्वित्व- बहुत्वयोर्मेये तु बहुत्वस्यापवादो योगः" इति । एवं पातञ्जलमहाभाग्य- कैयट विवरणादिषु विंशत्यादिशब्दविषये बहु विचारितम् । तस्य सारभूतोंऽशः प्रकृतोपयोगी संक्षिप्य प्रदर्श्यते यद्यपि पङ्क्ति विंशति०" [पा०सू० ५.१.५९.] इति सूत्रेण शरियादयो तदस्य मानमित्यर्थे निपात्यन्ते । एवं च गवां विंशतिरित्यादौ भेदनिबन्धना षष्ठी न प्राप्नोति । विंशतिशब्देन ता एव गाव उच्यन्ते, न तदधिकं किञ्चिदर्थान्तरमिति भेदानुपपत्तेः । तथापि निपातनस्य सर्वानुपपन्नार्थलाभप्रयोजनकत्वोपगमेन, अत्र विंशत्यादीनां गुणवाचकशुक्लादिशब्दानां गुण-गुण्युभयपरत्ववत् संख्या संख्येयोभयार्थपरत्वेन, यत्र संख्यामात्रारत्वं तंत्र गवां विंशतिरिति षष्ठयाः प्रयोगः, यत्र च संख्येयपरत्वं तत्र विंशतिर्गाव इति
" Aho Shrutgyanam"