________________
[ पा० ४ ० ४ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
२६३
भवतीति । प्रथमे कर्तरि तृतीया, द्वितीये हेतावितीदृशे | वचनेनैव निर्देष्टव्ये बहुवचनं व्यर्थमित्याशङ्कायामाह -
विग्रहे वाक्यमेव तिष्ठति प्रत्ययोत्पत्तिः भवतीति ।
बहुवचनं पृथगर्थताभिव्यक्त्यर्थमिति । एषु प्रत्येकं 40 प्रत्ययार्थता, न तु मिलितानामिति स्पष्टं प्रतिपादयितुं बहुवचनमिति भावः ||६|४|२|| संस्कृते ||६|४|३||
त० प्र०-तेनेति तृतीयान्तात् संस्कृतेऽर्थे इकण प्रत्ययो भवति । सत उत्कर्षाधानं 45 संस्कारः । दधा संस्कृतं दाधिकम् । मारिचिकम् । शार्ङ्गबेरिकम् । उपाध्यायेन संस्कृतः ओपाध्यार्थिकः शिष्यः । विद्यया संस्कृतो वैचिकः । योगविभाग उत्तरार्थः ||३||
नन्वस्तु करणे तृतीया, किन्तु यौकस्यां क्रियायां करणयस्यान्यविवक्षा तत्र कस्मात् कारणात् प्रत्ययः 5 स्यादिति शङ्कामुत्थाम्योत्तरयति - अभ्या खनन्नङ्गुल्या खनतीति । अयमाशयः - ईदृशस्थले करणद्वयस्य प्रयोगेऽपि मुख्य • गौणभावस्य स्पष्टं प्रतीयमानतया सम्भवति मुख्ये कार्यप्रसङ्गे गौणकार्यस्याप्रसंगात्, अभ्या एव मुख्यतः खननसाधनत्वमङ्गुलिस्तु तया खाताया मृदो बिलादुद्ध10 रगादी प्रयुका खनन साधनरवेनोपचर्यत इति तस्या गोणं
कारणत्वमित्याभ्रिकोऽङ्गल्या वनतीत्येव वाक्यम् । अथवा अभ्रिक इत्येव प्रयोगः । वस्तुतस्तु ईदृशस्थले वाक्यमेवोचितम्, प्राधान्यस्य विवक्षाधीनत्वात् । प्रत्युत मुख्या क्रिया खनतीत्येव तदपेक्षं करणस्त्रं तु अङ्गलेरेबेति तस्या 15 एव मुख्यं करणत्वं शब्दतः प्राप्तमिति तत एव प्रत्यय उचितः प्रतिभाति । न चाङ्गलिकरणकवननं प्रति पूर्वोकरीत्या अभ्या एव करणत्वमिति सेव मुख्यं करणमिति वाच्यम्, तावता तस्याः प्राधान्यासिद्धेः प्रत्युत मुख्यकरणोपकारकत्वेनाप्राधान्यस्यैवौचित्यात् । यदि चोक्त20 प्रयोगे नान्तरीयकतयाऽङ्गलेः करणत्वमित्युच्यते नदा
पूर्वोक्तं सम्यगेव । नान्तरीयकत्वमेव स्पष्टी कर्तुमुदाहरति यथा सुनादागच्छन् वृक्षमूलादागत इति । अत्र प्रधानमपादानं सुग्ध्न एव । वृचमूलं तु पथि पतितमिति नान्तरीयकमेव । अत एव वृक्षमूलान्नागतार्थे प्रत्यय 25 इत्युक्तं पूर्वे "तत आगते” [६.३.१४९.) इति सूत्रव्याख्यायां घृहद्वृत्तौ । काशिकायां तु अङ्गुल्या खनतीत्यप्रापि अनभिधानादेव प्रत्ययो नेत्युक्तम् । जयद्-दीव्यत् खनत्सु वर्तमानायां शत्रन्तेन निर्दिष्टेषु जयतीत्यर्थे एव प्रत्ययो न तु जिगाय इत्यादि भूताद्यर्थे इति शङ्कायामाह - 30 जयदादिषु त्रिषु कालो न विवक्षितः इति । तस्मात् कालत्रयेऽपि प्रत्ययो भविष्यतीति भावः । शब्दकौस्तुभे तु [४.४.२.] पुरुषसंख्यांकाला अविवक्षिता इत्युक्तम्, तेन कालत्रये पुरुषत्रये वचनत्रये च प्रत्ययोसत्तिरिति । तच स्वमतेऽपि न प्रतिकूलम् - आक्षिकाः पुरुषाः, आश्रि35 कस्त्रम्, आक्षिकोऽहम् इत्यादिप्रयोगाणां स्वमतेऽपि विरोधाभावात् । एनंस्थिते जितमित्यत्रापि कर्मत्वमात्रं विवक्षितं, तुका हस्याशङ्कायामाह - जिते तु विवक्षित | इकणोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । पवेति । तथैव प्रयोगाभिधानादित्याशयः । समाहारेणैक- । अन्ये तु कुलत्थशब्दात् सकाराक्रान्तथकारात् 75
||६|४|४|
त० प्र०-कुलत्थशब्दात् ककारोपान्त्याच्य शब्दरूपात् तेन सस्कृतेऽर्थेऽण् प्रत्ययो भवति ।
श० म० न्यासानुसन्धानम् - संस्कृते । 50 तेनेति संबध्यते तदाद-तेनेति तृतीयान्तादिति । संस्कृतेत्यस्य संस्कारविषयीभूतेत्यर्थः । संस्कारश्च योगार्थानुसारं सम्यकरणमेव । तथा च सम्यकृतयोत्पत्तिविषयीभूते इत्यर्थो लम्यते । न चायमर्थोऽत्राभिमतः । लोके उत्पन्नस्यैव संस्कारविषयतायाः प्रसिद्धेः अतः संस्कार- 55 शब्दस्य योगरूढमर्थमाह-सत उत्कर्षाधानमिति । स्तो लब्धोत्पत्तिकस्यात्मानं धृतवतो धर्मिणः उत्कर्षस्य - ( दृष्टस्यादृष्टस्य वाऽतिशयस्य ) आधानं संपादनं संस्कारशब्दवाच्यम् । विशेषणोत्कर्षनिष्ठत्पत्तिर्विशिष्टेधर्मिणि व्यवहियत इति भावः । उदाहरति-दध्ना संस्कृतमित्यादि 60
प्रदर्शनपूर्वकम् । दधिकरणकोत्कर्षविशिष्टमित्यर्थः । न केवलं दृष्ट एवोत्कर्ष इह गृह्यतेऽपि त्वदृष्टोऽपीति तथैवोदाहरति- उपाध्यायेन संस्कृत औपाध्यायिकः शिष्य इति । उपाध्यायेन शिष्ये मन्त्रोपदेशेन विद्यो पदेशेन वाऽदृष्ट एवोत्कर्षो जन्यते । एवं विद्यया संस्कृत 65 इत्यत्रापि विशेषम् । पूर्वयोग एवास्यापि अर्थस्य निर्देशे arratमति शङ्कां निरस्यति-योगविभाग उत्तरार्थ इति । उत्तरसूत्रेषु संस्कृतार्थस्यैकस्यैव संबन्धाय योगविभाग इत्यर्थः । एकयोगनिर्दिष्टत्वे तु सहैव सर्वेषां प्रवृत्तिनिवृत्तिर्वा स्यादिति भावः ||६|४|३||
।
"Aho Shrutgyanam"
70