________________
२५८
5
सूचयितुं पृच्छति - सरूपादिति किमित्यादिना । यत्र राजाऽन्यः, राष्ट्रं नान्यदिति तत्र मा भूदिति पौरवीयमिति । अत्र पुरुः पुरोरपत्यं पौरवो या राजा, राष्ट्र व अनुखण्डो जनपद इति सारूप्यं नास्तीति राष्ट्रवत् प्रत्ययाऽभावे भजतीत्यर्थे ईय एव भवति, न तु राष्ट्रवत् प्रत्ययः । असारूप्यं प्रमाणयति-अत एव पुरु-मगध इत्यादाविति । एतन्च “पुरु-मग्ध०” [६.१.११७.] इति सूत्र एव 'निरूपितम् । प्रेरिति किमिति । पञ्चालान् ब्राह्मणान् । अयमाशयः पञ्चावासिषु ब्राह्मणेषु पञ्चालशब्दस्याभेदोप10 चारादेव प्रयोगो न तु बहुत्वे द्रिप्रत्ययस्य लुपा इति नात्र
द्विप्रत्ययान्तत्वमित्यकञ् मज्जत्यर्थेन न भवति, किन्तु औत्सर्गिकोऽव भवति । सर्वग्रहणं प्रकृत्यतिदेशार्थमिति । एतच पूर्वमेव व्याख्यातम् । तत्प्रयोजनं न सर्वत्रापि तु कतिपयेवेत्याह- तच्च वाज्येत्यादिना । अन्यत्र स्वाभाविकत्वान्नातिदेशावश्यकतेति तदाह15 सारूप्यस्य अन्यत्र नास्ति विशेष इति । उदाहृतेषु आङ्गक इत्यादिषु विशेषो नास्तीत्यर्थः । तेनावन्स्यः इत्यादिषु प्रकृतिवद् रूपातिदेशस्य प्रयोजनेऽपि दोषाभावः || ६ | ३ | २०९ ॥
कलिकालसभी हेमचन्द्रसूरिभगवत्प्रणीते
टस्तुल्यदिशि || ६|३|२१० ।।
त० प्र०-ट इति सहार्थतृतीयान्तात् तुल्यfree यथाविहितं प्रत्ययो भवति । तुल्या समाना साधारणा दिग् यस्य स तुल्यदिक् । Referrerर्थः । सुदाम्ना पकदिक सौदामनी विद्युत् | सुदामा नाम पर्वतो यस्यां दिशि 25 तस्यां विद्युत् । तेन सा सुदाम्ना सदैक
विगुच्यते । सूर्येण सकदिक सौरी बलाका | हिमता एकदि हैमवती गङ्गा । त्रिककुदा एकदिe त्रैककुदी लङ्का ॥२१० ॥
20
श० म० न्यासानुसन्धानम्-टस्तुल्यः । 30 ट इति तृतीयाविभक्तयेकवचनमनुकृतम्, तद्विभक्तयथे प्रयुक्तम् । तुल्यशब्दप्रयोगाच्च तस्यास्तृतीयायाः सहार्थविषक्षायां विहितत्वमित्यपि समायाति, तदाह-सहार्थ तृतोयान्तादिति । तुल्यदिक्शब्दार्थं प्राहयति - तुल्या समाना साधारणेत्यादिना । तुल्यत्वं सामान्यं वा 35 द्वयोर्भवति, तचेहानुपपन्नं दिश एकत्वादित्याशयेनोक्तं साधारणेति साधारण्यं त्रोभाभ्यामेकस्या आश्रितत्वमेवेति फलितमर्थमाह-पकदिगित्यर्थ इति । मुदाम्ना पर्वतेन एकदिगत्यर्थेऽणि सौदामनीति । एकदिकुत्वं प्रयोगे
[ पा० ३ ० २१२. ]
संगमय्य दर्शयति- सुदामा नाम पर्वतो यस्यां दिशीत्यादिना । सूर्येण सकदिगिति । यां दिशमाश्रितः 40 सूर्यः तामेव दिशमाश्रिता बलाकेति भावः । एवं सर्वत्र प्रयोगे ऽर्थोऽनुसन्धेयः ||६|३|२१०||
तसिः ||६|३|२११॥
श०
त० प्र०-ट इति तृतीयान्तात् तुल्यदिश्यर्थे तसिरित्ययं प्रत्ययो भवति । पूर्वेण यथास्व- 45 मणादय पयणादयश्च विहिताः प्रत्ययान्तरमिदं सर्वप्रकृतिविषयं विधीयते । सुदाम्ना एकदिक् सुदामतः । सूर्यस्तः । हिमवत्तः । त्रिककुतः 1 पीलुमूलतः । पार्श्वतः । पृष्ठतः । इकारी 'वत्तस्याम्' [१.१.३४.] इत्यत्र विशेषणार्थः ॥ २११ || 50 म० न्यासानुसन्धानम् - तसिः । अस्य सूत्रस्य पूर्वसूत्रसमानयोगक्षेमवं व्याख्याति-ट इति तृतीयान्तादित्यादिना । तथा च पूर्वेण सहास्य पाक्षिकरवं सिद्धयतीति पूर्वोदाहृतानामेव प्रकृतीनां रूपान्तराणीहोदाहियन्ते - सुदाम्ना एकदिमित्यादि विग्रहप्रदर्शन 55 पुरःसरम् । एकयोगत्वे हि तसिनाऽणादयो वाधिताः स्युरिति पूर्वेण त एव यथास्वं विहिता अनेन तसिरिति विधानसामर्थ्यादुभयमपि भवति । इकारस्य प्रत्यये श्रुतस्य प्रयोगेष्वभ्यमाणत्वाद् वैयर्थ्यमाशङ्कथमाह-इकारो "वत्तस्याम्" [१.१.३४.] इत्यत्र विशेषणार्थ इति । अनेन सूत्रेण तसिप्रत्ययान्तस्याव्ययस्वं विधीयते इति प्रकृतसूत्रविहितस्य तसेस्तत्र ग्रहणार्थमिकार विशिष्टं रूपं कृतं प्रत्ययस्य । तत्रेकारश्च "व्याश्रये तसुः " [७.२.८१.] इत्यादिना विहितस्य तसोव्युदासार्थः इत्युभयोः परस्परव्यावृत्तत्वं सिद्धयति ||६|३|२११||
60
यश्वोरसः ||६|३|२१२॥
त० प्र०-उरम इत्येतस्मात् तृतीयान्तात् तुल्यदिश्यर्थे यः प्रत्ययश्चकारात् तसिश्च भवतः । अणोऽपवादः । उरसा पकदिक उपस्यः । उरस्नः ||२१२॥ा
70
श० म० न्यासानुसन्धानम् — यश्चो० । अणोऽपवाद इति । "रस्तुल्यदिशि” [६.३.२१०.] इति सामान्येन प्राप्तस्येति भावः । उरसा एकदिगिति, समानदिङ्मुख इत्यर्थः ||६/३/२१२ ॥
65
" Aho Shrutgyanam"