________________
[ पा० ३. सू० १३५. ]
बहुवचनान्तात् प्रत्ययो इति सूत्रयितुं सूत्रे बहुवचनमित्युक्तम्, तिरोहितावयवभेदविवक्षायां तु एकवचनान्ता दपि प्रत्ययौ भविष्यत एवेति द्वयोः संग्रहायैव तसन्तेन निर्देशः स्वमते कृत इति बोध्यम् । देहांशयापवाद 5 इति । ग्रीवाया देहांशत्वेन ततो “दिगादिदेहांशाद् यः" [६.३.१२४.] इति यः प्राप्तस्तदपवादाविमौ प्रत्ययावित्यर्थः । ग्रीवायां प्रीवासु वा भवमिति । पूर्वोक्तरीत्या स्वयं वक्ष्यमाणरीत्या च प्रोवाशब्दायें एकत्वबहुत्वयोर्दर्शनादुभयथा विग्रहः । विग्रहवाक्यमुपपादयति10 ग्रीवाशब्दो यदा शिरोधमनीवचन इत्यादिना । ' प्रीवे शिरोधि-तच्छिरे ' इति हेमाभिधानचिन्तामणी कन्धरा धमनियोवा शिरोधिश्च शिरोधरा" इति पाठात् प्रतीयते । तस्याश्च धमन्या नैकस्याः शिरोधारकत्वमपि तु बहीन तासामिति स्वभावाद् बहुत्वमेव युक्तम् | यदि 15 च तिरोहितावयवभेदविवक्षा तदेकत्वमपि संभाव्यत इति मोमयथा विप्रदर्शनमिति तत्त्वम् ||६|३१३२॥
"
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
चतुर्मासानाम्नि ||६|३|१३३॥
त०प्र० - चतुर्मासशब्दात् तत्र भवेऽण् प्रत्ययो भवति नाम्नि, समुदायश्चेन्नाम भवति । 20 चतुर्षु मासेषु भवा चातुर्मासी, आषाढी, कार्तिकी, फाल्गुनी च पौर्णमासी भण्यते । अत्र विधानसामर्थ्यात् 'त्रिगोरनपत्ये० ' [६. १. २४.] इत्यादिना प्रत्ययस्य लुब् न भवति । नाम्नीति किम् ? चतुर्षु मासेषु भवश्चतुर्मासः । 25 अत्र 'वर्षाकालेभ्यः' [६.३.८०.] इतीकण तस्य लुप् || १३३||
श०म० म्यासानुसन्धानम् - चतु० । चतुर्षु । मासेषु भवेति । चैत्रादारम्य वर्षगणनेति मुख्यमते आषाढयादयः पौर्णमास्यः चतुर्षु मासेषु व्यतीतेषु भवन्तीति 30 ताः चातुर्मास्त्र उच्यन्ते यद्यपि कुतश्चित् पूर्वमासादारभ्य सर्वा अपि पौर्णमास्यः चतुर्षु मासेषु भवितुं शक्नुवन्ति तथापि नाम्नीत्युक्ते रूढिरेव गृह्यत इति सा चेत्रादारभ्य गणनाऽपेक्षवास्तीति गम्यते । अत्र भवार्थे यद्यपि औत्सर्गिकोऽण् प्राप्त एव, किन्तु तस्य "द्विगोरनपत्ये” [६.१.२४.] 15 इति लुयूं स्यादिति तद्वाधनार्थे विशिष्यविधानमित्याहअत्र विधानसामर्थ्यादित्यादिना । कालेकण्याघनार्थ विधानमिति तु न युक्तम्, चतुर्मासशब्दस्य नियतकाल२९ सिद्धहेमचन्द्र ०
२२५
विशेषवाचकत्वाभावात् : प्रत्ययविधौ तदन्तविधेरभावाच्चेति कैयय्मतम्, तदनुकूलं स्वमतमपि । वस्तुतस्तु तत्पुरुषे 40 उत्तरपदार्थस्य मासस्य च नियतकालविशेषवाचकत्वेत समुदायस्वापीह कालार्थत्वमक्षतम् । ततश्च कालेकणेव वाध्यत इत्युचितम् प्रत्युदाहरणे तस्यैव लुपूविधानादप्येतदेव स्वमतमतीति लभ्यते । अणो लुम् तु नाम्नीति कथनेनापि कारयितुं शक्यते, संज्ञायां दृष्टस्यैव रूपस्यानुविधानात् । अन्ये च कालेक विधाय तस्य च लुपं विदधति । ततः 45 पुनरनेनाणू, तस्य विधानसामर्थ्यान्न लुबित्याहुः । सर्वथा फ्लैक्यमेव । नाम्नीत्युक्तिसामर्थ्यादपि न लुगिति नाम्नीत्यस्य प्रत्युदाहरणे करणेन विज्ञायते । तस्य सिद्धिप्रकारमाह- "अत्र वर्षाकालेभ्यः [६.३.८०.] इतीकणित्यादि ||६|३|१३३॥
यज्ञे ञ्यः ||६|३|१३४ ॥
स०प्र० - चतुर्मासशब्दात् तत्र भवे यज्ञे ञ्यः प्रत्ययो भवति । चतुर्षु मासेषु भवानि चातुस्यानि यज्ञकर्माणि ॥ १३४||
श० म० न्यासानुसन्धानम्-यज्ञे० । चतु- 55 मसादिति पदं पूर्वसूत्रात् संबध्यते । अत्र चतुर्मासशब्दो वार्षिकेषु वर्षासु प्रसिद्वेषु चतुर्षु मासेषु मिलितेषु प्रसिद्ध एव गृह्यते, रूढियेगापहारिणीत्युक्तेः । यज्ञपदेन देवपूजाविषयकं फर्म, व्रतादिकं सर्वे गृह्यते सर्वेष्येषु चतुर्मास्यशब्दप्रयोगात् ||६|३|१३४॥
गम्भीर - पञ्चजन - बहिर्देवात् ||६|३|१३५||
त०प्र०- गम्भीर पञ्चजन बहिर्देव इत्येतेभ्यस्तत्र भवे यः प्रत्ययो भवति । अणाचपवादः । गम्भीरे भतो गाम्भीर्यः । पाञ्चजन्यः । बाह्यः । दैव्यः । भवादन्यत्र गाम्भीरः । पाच- 65 जनः । द्विगौ त्यणो लुपि पञ्चजनः । वाहीकः । देवः । भवेऽपि वाहीक इत्येके ||१३५||
50
"Aho Shrutgyanam"
60
To म० न्यासानुसन्धानम् - गम्भीर० । अणाचपवाद इति । गम्भीरादोत्सर्गिकस्यागः पञ्चजनादपि तस्यैव 1 बहिषष्टीकणः, देवादश्चायमपवाद इत्यर्थः । 70 पञ्चजनशब्दस्यानेकेऽर्थाः । एकः पुरुषवाची ' स्युः पुमांसः पञ्चजनाः' इति कोशाद् परो दैत्यविशेषवाची, तृतीयः पातालवानी चेति अमरकोशटीकातोऽवगम्यते । तत्र