________________
20
--
मृतस्य वा प्रपौत्रादेर्युवसंज्ञा नियतो पूर्वसूत्रेण प्रत्यपादि, सांप्रतं तयोरन्यस्मिन् सपिण्डे जीवति जीवतः पाक्षिक युवसंज्ञामाख्यातुं सूत्रमिदम् । तत्र 'सपिण्डे' 'वय:5 स्थानाधिके' इति पदयोर्व्याख्यानमाह-ययोरेक. इत्यादिना, ययोः सपिण्डत्वेन ग्राह्ययोः, पूर्व: – पूर्वजः, सप्तमः पुरुषः, एकः - समानः, तौ अन्योऽन्यस्य, सपिण्डो-सपिण्डस्वेन व्यवहार्यो । सप्तम इति सपिण्डताया अवधिकथनम्, यदाह मनुः 'सपिण्डता तु पुरुषे सप्तमे 10 विनिवर्तते ।' इति, अयमाशयः स्वत आरभ्य पूर्वसप्तमपुरुषपर्यन्तं येन सह यस्य समानपुरुषत्वं भवति स तस्य सपिण्डः, ततोऽग्रे दशपुरुषपर्यन्तं समानोदकः, ततो यावत् जन्म-नामादि शायते-‘अयं मद्वंश्यस्यामुकस्य पुत्रादिः' इति तावत् सकुल्यत्वम्, ततोऽप्यग्रे सगोत्रत्वव्यवहार इति 15 धर्मशास्त्रव्यवस्था मनुस्मृत्यादौ विस्तरशः प्रतिपादिता ! समानः पिण्डो यस्य स सपिण्डः, पिण्डो हि पितृभ्यो देयो वर्तुलाकारोऽन्नमयः पदार्थः, प्रेतस्य नरस्य दशभिः पिण्डः [पिण्डान्तरं ] शरीरान्तरमुत्पादयति, तदेव च शरीरमाविश्य प्रेतो जीव एकदशाहादिश्राद्धं स्वीकरोति, ततो द्वादशेऽहनि पूर्वजेभ्य उद्दिश्य पिण्डा दीयन्ते तेषां च पिण्डानामेतत्प्रेतपिण्डेन सह मेलन भवतीत्यैषैव सपिण्डता स्मार्तानाम्, सा च सप्तमपुरुषपर्यन्तमेव भवतीति ।
।
|
|
30
वयसा स्थानेन चाधिकः-श्रेष्ठो वयः शब्दस्यानेकार्थत्वादिह ग्राह्यमर्थमाह-वयो यौवनादीति । स्थानपदार्थमपि विविच्य दर्शयति-स्थानं पिता पुत्र इत्यादीति यद्यपि स्थानशब्दोऽत्र शास्त्रे प्रसङ्गादिषु प्रयुक्तस्तथाप्यत्र सूत्रे स सम्बन्धवाची, अस्ति च संबन्धानुसारिण्यां स्थितौ स्थानशब्दो लोके प्रयुक्तः, यथा अयं मम पितृस्थानीयोऽयं मम पुत्रस्थानीय इत्यादि, केवलं वयसाऽधिकस्य ग्रहणे यः किल वयसाऽधिकः सम्बन्धेन न्यूनस्थानीयस्तस्मिन्नपि जीवति परमप्रकृतिप्रपौत्रादेर्युवसंज्ञा स्यादिति स्थानाधिकस्यापि ग्रहणमकारि, एवं स्थानाधिकग्रहणे च । एतच्च पदकृत्य प्रदर्शनसमये प्रन्थकारः 35 स्वयमेव स्पष्टयिष्यति । अत्र पूर्वसूत्रात् 'जीवति' 'प्रपो'आदि' 'अस्त्री' 'युवा' इति पदचतुष्टयमनुवर्तते, प्रपौत्रादि पदं चापत्यपमाक्षिपति तथा च परमप्रकृतेरित्यादिवृत्त्युक्तो sः सम्पन्नः । पूर्वसूत्रे वंश्य ज्यायोभ्रात्रोः सपिण्डयोर्जीवतोः परमप्रकृतिप्रपौत्रादेर्नित्यं संज्ञाविधानाद् इह
युव-वृद्धं कुत्सा वा ॥६॥११५॥
त०प्र० युवा च वृद्धं चापत्यं यथासंख्यं
40 सामर्थ्यात् सपिण्डपदं तदितरसपिण्डपर मिति लभ्यते एवेति | कुत्सायामर्चायां च विषये युवसंज्ञ वा भवति ।
पा०]
श्री सिद्ध हेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ॥
पित्रादावात्मनः कारणे ज्येष्ठे भ्रातरि च जीवति जीवतो | 'अन्यस्मिन् ग्रहणं न कृतम् । तथा च स्वपितृपितामहादौ, स्वसमानमातृके स्वसमान पितृके वा ज्येष्ट भ्रातरि जीवति चतुर्थादेर्नित्यं युवसंज्ञा, पितृव्ये पितामहस्य भ्रातरि तादृशस्थानीये वाऽन्यस्मिन् वयोऽधिके, सपिण्डे जीवति विकल्पेन युवसंज्ञेति विषयविभागः । नच 45 पितृव्य - पितामह - भ्रात्रादेर्वा वंश्यत्वेन ग्रहणस्यो चितत्या तद्विषये पूर्वेण निस्यैव संज्ञा कुतो नेति वाच्यम्, तत्र वंश्यपदेन पित्रादिरात्मनः कारणमेव गृह्यते इति व्याख्यातत्वात् ।
25
उहाहरति- पितृव्ये पितामहस्य भ्रातरि या 50 चयोऽधिके जीवति जीवद्गार्ग्यस्यापत्यंगार्ग्यः, गार्ग्यायणो वेति तत्र सत्यां युत्रसंज्ञायां “वृद्धाद्द् यूनि” [६.१.३०.] इति नियमात् पूर्वं वृद्धार्थके “गर्गादेर्यञ” [६.१.४२.] इति यत्रि ततो यूनि "यञिञः " [६.१.५४.] इत्यायनणि- गार्ग्यायण इति, 55. पक्षे “पौत्रादि वृद्धम् " [६.१.५४.] इत्यायनणि गायण इति, पक्षे पौत्रादि वृद्धम् ” [६.१.२.] इति वृद्धसंख्य वृद्धार्थमात्रे प्रत्यये गायः इति । अतिदिशति एवं वात्स्य:, वात्स्यायनो वेति ।
77
पदकृत्यं पृच्छति - सपिण्ड इति किमिति, 50 उत्तरयति - अन्यत्र गार्ग्यः इति सपिण्डादन्यत्र वयःस्थानाधिके मातुलादौ जीवति सत्यपि वृद्धसंज्ञेष भवति, न युवसंज्ञा, सपिण्डपदाभावे च विकरूपेन युवसंज्ञा स्यादिति भावः | 'वयः-स्थानाधिके' इति पदस्य प्रयोजनमाहब्राभ्यामन्यतरेण वा न्यूने - गार्ग्यः इति द्वायां 45 वयःस्थानाभ्यामन्यतरेण द्वयोरेकेन वयसा स्थानेन वा न्यूने वृद्धसंज्ञैव भवतीति तात्पर्यम् । जीवपदस्य फलमाह - मृते गार्ग्यः इति प्रपौत्रादितश्वत् स तादृशे सपिण्डे जीवत्यपि न युवा, किन्तु वृद्ध एव । जीवतीत्यनुवृत्तेर्व्यावृत्तिमाह-मृतो. गार्ग्य: इति तादृशे 70 सपिण्डे मृते सति : जीवन्नपि चतुर्थाद्रिगार्ग्य एव वृद्धप्रत्यायन्त एव, न युवप्रत्ययान्तस्यर्थः । व्यावृत्तिमाह-प्रपौत्रादीत्येव - पौत्रो गार्ग्य: - इति तादृशे सपिण्डे जीवति मृते वा जीवन मृतो वा पौत्रो गार्ग्य एव भवतीत्यर्थः । अस्बीत्येव स्त्री : गार्गोति- 75 प्राग्वद् भावना ||६|१|४||
"Aho Shrutgyanam"
3