________________
कलिकालसर्वज्ञश्री हेमचन्द्रसूरि भगवत्प्रणीते
૨૪
विकारः " [पा०सू० ४.३.१२३.] इति सूत्रे काशिकायां तु प्रकृतेरवस्थान्तरं विकार इत्युक्तम् । इदं च लक्षणं पूर्वलक्षणापेक्षया व्यापकम् । गुणादिविकारेऽपि व्याप्तेः । यद्यपि गुणस्य द्रव्याश्रितस्यैवावस्थान्तरं सम्भाव्यते द्रव्यं 5 विना तदवस्थितेरभावात्, द्रव्यनिष्ठगुणस्यावस्थान्तरसम्पत्तौ च द्रव्यमप्यवस्थान्तरमापन्नमिव लक्ष्यते । तस्मात् पूर्वेणापि लक्षणेन सर्वलक्ष्यव्याप्तिः सम्भवति तथापि प्राधान्येन व्यपदेशा भवन्ति इति न्यायेन यत्र रूपमात्रविकारः प्राधान्येन निर्देष्टुमिष्टः स्यात् तत्रापि विकारलक्षणं व्याप्नु10 यादित्यत एव काशिकाकृता लक्षणमिदमुपात्तमिति प्रतीयते ।
पा० २. सू० ३१. |
सूत्रस्य पृथक् पाठो विधिसूत्रत्वं चावश्यकमिति ॥ ६| २|३०|| 4 प्राप्यौषधि वृक्षेभ्योऽवयवे च ||६|२|३१||
ननु विकारस्यापीदमर्थतया ग्रहणात् " तस्येदम्" [६.३.१५९.] इत्यनेनैव विकारार्थेऽप्यणः सिद्धेः किमर्थमिदं तदर्थे पृथग्वचनं क्रियते । ये च विकारार्थं विशिष्य 25 विहिताः प्रत्यया अग्रे वक्ष्यन्ते, तदर्थमेकस्य ( प्रथमस्य ) सूत्रस्यादौ विकारार्थनिर्देशः क्रियताम्, इदमेव वा केवलमधिकारसुत्रत्वेन व्यवह्नियतामित्याशङ्कायामाह-तस्येद- | मित्येव सिद्धे इत्यादि । अर्घादिष्विति सप्तमी विषयतायाम् । तथा चार्धादिशब्दविषये विकारार्थत्वेनोक्तौ इदम30 र्थस्य शैषिकत्वेन तत्र सामान्यतया विहितस्यागोऽपवादका विशिष्य तत्तच्छब्देभ्यो विहिताः प्रत्ययाः प्रवर्तिष्यन्ते न स्वग् इत्यणोऽपवादकानां प्रत्ययानां विकाराथै बाधनार्थमिदं पृथग्वचनमारब्धमिति भावः । तथाहिं शैषिकेऽर्धशब्दात् "अर्घाद्यः " [६.२.६९.] इति यो चिह्नितः, इलसीर35 शब्दाभ्यां "हलसीरादिकण्” [६.३.१६१.] इतीकण विहितः । चेदि-वृजिशब्दाभ्यां राष्ट्रवाचिभ्यां चेदिशब्दस्य काश्यादिपाठात् "काश्यादेः” [ ६.३.३५.] इति णिकणौ, 'बुजेः "वृजिमद्राद् देशात् कः " [६.३.३८. ] इति कश्च विहित इति विकारार्थेऽपि त एव स्युरित्यणो विधानार्थमस्य
प्राणिन-औषधि वृक्षवाचिभ्यः षष्ठयन्तेभ्योऽवयवे विकारे च यथाविहितं प्रत्यया भवन्ति ।
|
उदाहरति- अश्मनो विकारः आश्मन आश्म इति । अश्मन्शब्दादणि आदिस्वरवृद्धौ “अणि” [७.४.५२. ] इत्यन्त्यस्वरादिलोपे प्रतिषिद्ध आरम इति रूपं कथमित्याशङ्कायामाह - "वाश्मनो विकारे ” [ ७.४.६३. ] इत्य15 स्यस्वरादिलोप इति । भस्मनो विकारः भास्मनः इति । अत्र “अणि” । ७.४.५२. ] इति प्रतिषेधादन्त्यस्वरादिलोपाभावः । मृतिकाया विकारो मार्तिकः आदिस्वरवृद्धी आकारलोपे च रूपसिद्धिः । एवमन्येषामपि सिद्धिर्विज्ञेया । चेद्यादयो जनपदविशेषास्तेषामप्यवस्थान्तरं 20 तत्स्थलोकवृद्धि ड्रासादिभिः सम्भाव्यत एवेति तत्तदुदाहरणसङ्गतिः ।
प्राणिभ्यः, कापोत सक्थि । कापोत 4 मांसम् । मायूरं मांसम | आधिकं मांसम् । अविशब्दादनभिधानान्न भवति । औषधिभ्यः, दौर्म काण्डम्, दौर्ब भस्म । मौर्य काण्डम्, मौर्य भस्म । वृक्षेभ्यः, कारीरं काण्डम्, कारीरं भस्म । बेल्वं काण्डम्, बैल्वं भस्म । प्राण्यौषधि-वृक्षेभ्य इति किम् ? पाटलिपुत्रस्यावयवः पाटलिपुत्रकः प्राकारः । 'तस्येदम्' | ६.३.१२९. ] इति विवक्षायामकञ् । एवं पाटलिपुत्रकः प्रासादः । इतः परं विकारे प्राण्यौषधि-वृक्षेभ्योऽवयवे चेति द्वयमप्यधिक्रियते । तेनोत्तरे प्रत्ययाः S प्राण्यौषधि वृक्षेभ्योऽवयवविकारयोरन्येभ्यस्तु विकारमा भवन्तीति वेदितव्यम् । प्राणिनचेतनावन्तः | औषधयः फलपाकान्ताः । वृक्षाः पुष्पवन्तः फलवन्त । वृक्षविशेषत्वाद् वनस्पति- वीरुधामपि वृक्षग्रहणेन ग्रहणम् । प्राणिग्रहणेनैव चेतनावत्वेन वृक्षौषधिग्रहणे सिद्धे तदुपादानमिह शास्त्रे प्राणिग्रहणेन घसा पव गृह्यन्ते, न स्थावरा इति ज्ञापनार्थम् ||३१||
श० म० न्यासानुसन्धानम् - प्राण्यौ० । सूत्रे चकारंण विकारार्थः संगृह्यते तथार्थमाह-अवयवे विकारे- 1 चेति । अवयवा अङ्गानि । तथोदाहरति- प्राणिभ्य इति प्रकृत्या कापोतं सक्थीति । कपोतस्यावयवः इति विग्रहः, सक्थीति तद्विशेषनाम निर्दिष्टम्, कापोतं मांसमिति विकरार्थस्योदाहरणम् । यद्यपि मांसमपि यथाकथ ञ्चिदवयव एव तेनाप्यवयविनः कोतशरीरस्य साङ्गस्यम्, तथापि सर्वावयत्रसमूहभूतस्य तच्छरीरस्याविभागेन गृह्यमाणं तद्विकारत्वेनैव गृखते, तच्छरीरस्यैवावस्थान्तररूपत्वेन मांसस्य दर्शनात् । एवं सर्वोदाहरणेषूह्यम् । अवेरवयवः आविक सक्थि । अत्राविशब्दात् स्वार्थे कप्रत्ययं विधाय ततोऽणि आविकमिति रूपं भवति । न केवलादवि-शब्दात् प्रत्ययोत्पत्तिः । तत् कुत इत्याह- अवि शब्दानभिधानान्न भवतीति । अयमाशय:- अर्थामि
" Aho Shrutgyanam"