SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ર कलिकालसर्वश्री हेमचन्द्रसूरिभगवत्प्रणीते [ पा. २. सू० ६. ] wwwwww परमेतावता स्फुटमिदमायातं यत् यस्मिन् नक्षत्रे बृहस्पति | चन्द्रयुक्तेन पुष्येण युक्तो ग्रहः । लुप् स्वप्रयुक्ते, अथ पुष्यः । अद्य मघाः । दिवा कृत्तिकाः । 40 रात्र फल्गुन्यः । पुष्ये पायसमश्नीयात्, मघासु पलौदनम् । अप्रयुक्त इति किम् ? पोषमहः । पौषी रात्रिः । पौषोऽहोरात्रः । पौषः कालः ||६|| स्तिष्ठति, तदा च यो वत्सरः समाप्नोति स तन्नक्षत्रनाम्ना प्रथते, तथा च पुष्यनक्षत्रस्थे गुरौ यो वत्सरः समाप्नोति स पौषः कथ्यते, एतादृशार्थबोधायेवेदं सूत्र5 मारभ्यते । अन्ये च वैयाकरणाः केचन नेदृशं स्पष्टं सूत्रमारभन्ते, केवलं सामान्येन " नक्षत्रेण युक्तः कालः " इत्यर्थे प्रत्ययविधानेन तन्नक्षत्रयुक्तकालस्यापि नक्षत्रशब्देन व्यवहारमाश्रित्य तत्रस्थेन गुरुणापि युक्तः कालः- संवत्सरादिः तन्नक्षत्रादुत्पन्नेन प्रत्ययेनाभिधीयत इत्याश्रयन्ति । 10 स्त्रमते च नेदृशाक्लिष्टकल्पना कर्तव्या भवतीति लाघत्रम् | उदितगुरोरिति किमिति येन केनापि उदितेन ग्रहेण युक्तोऽब्दस्तन्नाम्ना व्यवह्नियतामिति प्रष्टुराशयः । नायं व्यवहारः स्वाधीनोऽपि तु कालश( ज्योतिर्वित् ) - सम्प्रदायप्रसिद्ध्यनुरोध्येव । तथा च नान्यग्रहेणोदितेन युक्तान्नक्षत्रात् प्रत्ययोत्पत्त्याऽन्यस्तन्नाम्ना व्यवद्रियते इत्याह- उदित शनैश्वरेण पुष्येण युक्तं वर्षमित्यत्र न भवतीति । पुनः शङ्कते -भादिति किमिति ? नक्षत्रस्यैव ग्रहेण सम्वन्ध इत्याशयेन प्रश्नः । उदित 15 गुरुणा पूर्वरायेणेति । नक्षत्रशब्दोऽपि तन्नक्षत्रयुक्त20 कालार इत्युक्तं प्राक् । तथा च यत्र न नक्षत्रात्मकस्य कालस्य गुरुणा सम्बन्धो विवक्षितोऽपि तु पूर्वरात्रादेः कालखण्डस्य तत्र प्रत्ययो मा भूदिति समाधानाशयः । अब्द इति किमिति ? अब्दस्यैव वाच्यता किमित्याश्रीयते यः कश्चित् कालस्तादृशेन ( उदितगुरुणा ) युक्तः 25 स्यात् तत्र विधीयतामित्याशयः । मासे दिवसे वेति उदितगुरुणा नक्षत्रेण युक्ते मासे दिवसे वा तन्नक्षत्रादुत्पन्न - प्रत्ययान्तेन समासेो दिवसो वा मा भिधायीति भावः ||६||५|| | चन्द्रयुक्तात् काले लुपत्वप्रयुक्ते ||६||६|| 30 चन्द्रेण युक्तं यन्नक्षत्रं तद्वाचिनस्तृतीयान्ता युक्तेऽर्थे यथाविहितं प्रत्ययो भवति, स चेद्र युक्तोऽर्थः कालेो भवति, अप्रयुक्ते तु कालवाचके शब्दे लुब् भवति । पुष्येण चन्द्रयुक्तेन युक्तमहः पौषमहः । 35 पत्र पौषी रात्रिः । पौषोऽहोरात्रः । पौषः कालः । माघमहः । माघी रात्रिः । माघोऽहोरात्रः । माघः कालः चन्द्रयुक्तादिति किम् ? शुक्रयुक्तेन पुष्येण युक्तः कालः । भादित्येष ? चन्द्रयुक्ते शुक्रेण युक्तः कालः । काल इति किम् ? श० म० न्यासानुसन्धानम्-चन्द्र० । भादिति पूर्वतोऽनुवृत्तम्, तद्विशेषणं 'चन्द्रयुक्तात्' इति । अत्र 45 भूगे बाकयद्वयम्, 'चन्द्रयुक्तात् काले' इत्येकंवाक्यं 'लुत्वप्रयुक्ते' इति परम्, तथैव च सूत्रं व्याख्याति । सूत्रकृतैव 'तु' शब्देन परवाकयस्य पूर्ववाकयासंबन्धस्य सष्टीकरणान्न बाकयभेदप्रसङ्गो दोषाय । 'अप्रयुक्ते ' इत्यनेन सम्बन्वायोत्तरवाक्ये वाक्यात् काले इत्यादीयते । 50 तथा च वृत्रयुक्तार्थः संपन्नः । उदाहरति पुष्येण चन्द्रयुक्तेनेत्यादि । अत्र पुण्यपदमेव चन्द्रयुक्तपुष्यनक्षत्रारम् चन्द्रयुक्तेनेति पदं तस्य (पुष्यस्य) तादृशार्थबाधकत्वपरिचायकमेव । अन्यथा पुष्यदात् प्रत्ययो न स्यात् *शेषगानां वृत्तिने, वृत्तस्य च विशेषगो न इति 55 न्यायात् । सत्यपि कथञ्चित् प्रत्ययोत्पत्तौ चन्द्रयुक्तपुष्यनक्षत्रयुक्तं वर्षमितीदृशार्थबेाचेो न स्यात् चन्द्रयुक्तरूपार्थस्य प्रकृतिप्रत्ययान्ययाभावात् । तदिनादिवृत्ती स एवार्थे भासते यः प्रकृते प्रत्यवान्यतरान्तर्भूतः, अन्यथाऽतिप्रसङ्गः स्यात्, तथा च पुण्यादनत्र चन्द्रयुक्त- 60 पुष्यनक्षत्रपरं वृत्तिस्वाभाव्यादित्याश्रयणीयमेव । | पदकृत्यानि स्पष्यनि । द्वितीयवाकयमुदाहर्तुमवतारयति - लुप्त्वप्रयुक्ते इति । अप्रयुक्ते कालवाचके शब्देऽनेनैव विहितस्य प्रत्ययस्य लुप् भवति, यथा अय पुष्प इति । चन्द्रयुक्तेन पुष्येण युक्तः काल इत्येव विग्रहः, 64 केवलं कालवाचकस्य शब्दस्य न प्रयोग इत्येतावता विहितस्यापि प्रत्ययस्य लुबू भवति । अद्य मघाः, चन्द्रयुक्ताभिर्मधाभिर्युक्तः काल इति विग्रहः । प्रत्ययलपि सत्यां प्रकृतेरेव रूपं यथावदवस्थितम् । अत्र यद्यपि 'अद्य ' इत्यपि कालवाचकमेव, तथापि तस्याधिकरणशक्तिप्रधानत्वेन, 70 न पुष्ययुक्तकालेन सामानाधिकरण्यमिति न कालप्रयोग इति मन्यते । अत्र कालप्रयोग इत्यस्य यः काला युक्तो भेन तस्य प्रयोग इत्यर्थः । नन्वेतदयुक्तम् यः कालेोऽद्यत्यनेन गम्यते तस्यैव पुष्ययोग इति गम्यते, नहि अद्येति पदार्थभूतकालभिन्नः कश्चित् काल इह पुष्ययुक्तत्वेन 75 भासते, ततश्चाद्येत्यस्याधिकरणशक्तिप्रधानत्वेऽपि अत्र केवलमतीताया राजेः पश्चार्धेनागामिन्याश्च पूर्वार्धेन युक्तः "Aho Shrutgyanam"
SR No.009518
Book TitleBruhannyasa Part 6
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherSiddhhem Prakashan Samiti Botad
Publication Year1983
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy