________________
20
[ पा० २. सू० १.]
श्रीसिद्धमच
25
शब्दानुशासने षष्ठोऽध्यायः
१०९
त्युपलक्षणम्, अन्येषामपि वर्णानां वर्णान्तरापादने रज्जेः प्रयोगात्, किन्तु वर्णान्तरापादनमात्रमर्थः, रजेरिति केचन व्याचख्युः, तन्न राचयामहे, काषायं कौममित्यादौ 40 स्वभावतः शुक्कस्यैव वर्णान्तरत्वप्रतिपत्तिप्रतीतेः, शुक्लातिरिक्तवर्णस्य वर्णान्तरापादनप्रतिपिपादयिषायां वाकयस्यैव
॥ द्वितीयः पादः ॥
रागट्टी रक्ते ||६|२| १॥
शुक्लस्य वर्णान्तरापादनमिह रजेरर्थः । रज्यतेऽनेनेति रागः कुसुम्भादिः । रागविशेष5 वाचिनो नाम्नष्ट इति तृतीयान्ताद् रक्तमित्ये- | स्वीकाराञ्च । तस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
कुसुम्भेव रकं वस्त्रं कौसुम्भम् । एवं काषायम | कौङ्कमम् । माञ्जिष्ठम् | हारिद्रम् । माहारजनम् । वाऽधिकारात् पक्षे वाक्यं 10 समासश्च भवति । कुसुम्भेन रक्तं कुसुम्भरक्तम् . इत्यादि । रागादिति किम् ? चैत्रेण रक्तम् । पाणिना रक्तम् । रागशब्देन प्रसिद्धा एव कुसुम्भादयो रागा गृह्यन्ते । तेनेह न भवति । कृष्णेन रक्तम । लोहितेन रक्तम् । पीतेन रक्तम् 15 इति । पते हि वर्णा द्रव्यवृत्तयो न तु रागाख्याः। कथं काषायों गर्दभस्य कर्णौ हरिद्रौ कुक्कुटस्य पादौ इति । काषायाविव काषायौ । हारिद्राfer हारिद्र इत्युपमानोपमेयभावेन तद्गुण - ध्यारोपाद् भविष्यति ॥ १॥
श०म० न्यासानुसन्धानम्-रागा० । रागशब्दस्य रञ्जीधातोर्घञा निष्पन्नत्वेन, धातोरर्थनिदेशे च 'रागे' ! इत्युक्तया आत्माश्रयतापत्तिं मनसि विचार्य धात्वर्थ विवृणोति - शुक्लस्य वर्णान्तरापादनमिद रज्जेरर्थ इति । शुङ्कुशब्दा गुणवाचकेोऽप्यत्र गुणिपदशुक्लवर्णवता द्रव्यस्येत्यर्थः ।
|
“गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति" इत्यमरकोशात् । नहि शुक्लस्य वर्णस्य वर्णान्तरत्वमापादयितुं शक्यते गुणे गुणानङ्गीकारात्, किन्तु वर्णान्तरेण तदभिभावकेन तदभिव्यक्तिर्वायते येन शुक्र-गुणवद्द्रव्यं वर्णान्तर30 वत्तया प्रतीयते, तथा च शुक्लवर्णवतो द्रव्यस्य वर्णान्तरसम्बन्ध संपादनमिह धात्वर्थ इति फलति । ' रञ्जयति मृगान्', 'रञ्जयन्ति जनमनांसि' इत्यादावर्थान्तरस्यापि प्रतीतेः 'इह' इत्युपन्यस्तम् । इहेत्यस्य प्रकृतरागशब्दे इत्यर्थः । रागपदस्यापि भावकरणाद्यनेकार्थव्युत्पन्नतयाऽने35 कार्थत्वेनेह योऽर्थो प्राह्मस्तमाह- रज्यतेऽनेनेति रागः कुसुम्भादिरिति । कुसुम्भं नाम पुष्पविशेषो येन वस्त्ररानं विदधति रजकाः । यत्तु रज्जूधात्वर्थनिरूपणे शुक्कस्ये
सूत्रे 'ट' इति वाशब्दस्य पञ्चम्येकवचने रूपम्, यपदं 45 च स्याद्यवयवकविभक्तेरुपलक्षणम्, प्रत्ययग्रहणे च तदन्तग्रहणमिति '2" इत्यस्य तृतीयान्तादित्यर्थः । तथा च यादृशः सूत्रार्थः सम्पन्नस्तमाह-रागविशेषवाचिन इत्यादिना । उदाहरति-- कुसुम्भेन रक्तमित्यादिना विगृह्य । स्पष्टान्युदाहरणानि । " वाद्यात्” [ ६.१.११.] इत्यतोऽधि - 50 कृतस्य वाशब्दस्येहानुवृत्तिस्मरणपूर्वकं तत्फलमाह-वाऽधिकारात् पक्षे वाकथं समासञ्च भवतीति । प्रत्ययस्य पाक्षिकत्वसूचनात् तत्प्रयेागार्थप्रतिविपादयिषायां क्वचिद् वाकयमेव तिष्ठति, कचिच्च समासः कियते इति भावः ।
पदकृत्यं पृच्छति - रागादिति किमिति 155 तृतीयान्ताद् रक्तेऽर्थे प्रत्ययो विधीयते, तृतीया च करणे भवति, रञ्जनकरणं च राग एवेति विनाऽपि रागग्रहणं रागवाचकादेव भवतीति प्रष्टुराशयः । अतिव्याप्योतरयति-चैत्रेण रक्तमिति । अयमाशयः न हि तृतीया - करणमात्रनियता, कर्तर्यपि तस्या विधानादिति तृतीयान्तात् 60 कर्तुरपि प्रत्ययापत्तिः स्यादिति तद्वारणाय रामादित्यावश्यक - मिति । किञ्च, करणमपि रञ्जनस्य न रागमात्रम्, अपि तु तत्क्रियासिद्धौ साधकतममन्यदपि करणतृतीयान्तं संभाव्यते ततो मा भूदित्याह - पाणिना रक्तमिति । ' तेन रक्तं रागाद्' [पा०सू० ४.२.१.] इति सूत्रे महाभाष्ये तु रागग्रहणं प्रत्याख्यातप्रायम्, तद्भाष्याशयः कैयटेनेत्थं प्रकटीकृतः, रागबाचकादेव विहितात् प्रत्ययेनेदृशोऽर्थः (रक्तार्थः) बोधयितुं पार्यते, काषायं वस्त्रमित्यादौ यथा रक्तार्थप्रतीतिस्तथा दैवदत्तं वस्त्रमित्यादौ न भवतीति कतृ तृतीयान्तात् नैव भविष्यतीति रागादिति नावश्यकम् । एवं करण- 70 तृतीयान्तादपि रागभिन्नात् पाण्यादेरुत्पन्नेन प्रत्ययेन रक्तार्थप्रतीत्यनुपपत्तिर्द्रष्टव्या । स्वमतेऽप्येवं प्रत्युदाहरणेषु समाधानसम्भवेऽप्यभिधानसामर्थ्याश्रयणाद् वरं करणमिति रागादिति कर्तव्यमेवेति प्रतिपादितम् । रागपदेन रञ्जनकरणीभूतत्वेन प्रसिद्धस्य तत्तद्रव्यस्यैव ग्रहणं, न तु राग- 75
65
"Aho Shrutgyanam"