________________
पा० १. सू० १२६. ]
।
सामान्येनैव यस्कादेविहितस्य प्रत्ययस्य लुब् विधीयतामिति प्रश्नः । गोत्रादन्यत्र मा भूदित्याह - यास्कारछात्रा इति, यस्कस्य वृद्धापत्यानां छात्रा इत्यर्थे पूर्वमपत्यार्थे विहितस्याणो लुबिव - इदमर्थे विहितस्याणोऽपि लुबू न 5 भवति । गोगे इत्यस्याभावे तु सा दुर्बारा । प्रत्युदाहरणान्तरमाह——यस्कस्यापत्यानीत्यादिना । यस्कस्य वृद्धापत्यानां प्रतिकृतय इत्यर्थे ऽणन्तात् प्रतिकृती कप्रत्यये तस्य लुपि अणन्तमेव रूपमवशिष्यते, तत्रानेनाणो लुबू प्राप्नोति, गोत्रे वर्तमानस्येत्यर्थाश्रयणेन सा निवार्यते, 10 संप्रति समुदायस्य गोत्रपरत्वाभावात् प्रतिकृतिपरत्वस्यैव
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः
सत्त्वात् । अस्त्रियामित्यनुवृत्तस्य व्यावर्थमाह---यास्क्यः स्त्रिय इति । अत्र बहुत्वे सत्यपि स्त्रियां वर्तमानात्वान्न प्रत्ययो लुप्यते, अस्त्रियामित्यस्याभावे तु लुप्येतैवेति भावः गणं पठन् केभ्यः कस्य प्रत्ययस्य लुप् इत्यादि विविच्य 15 ग्राहयति - एम्य: " शिवादेरणू " [६.१.६०.] इत्यादि रूपेण | स्पष्टमन्यत् ॥६।१११२५||
rasश्यापर्णान्त - गोपवनादेः ||६|१|१२६||
यजन्तस्यान्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् 20 भवत, गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितं वर्जयित्वा । गोपवनादिबिंदायन्तर्गणः । गार्ग्यः, गाग्यौ, गर्गाः । वात्स्यः, वात्स्यो, वत्साः । बेदः, बैदौ, बिदाः । और्षः औध, उर्वाः । गर्गमयम्, गर्गरूप्यम् । अश्यापर्णान्तगोपवना25 देरिति किम् ? गौपवनाः शैग्रषाः । बैन्दवाः ।
|
ताजमाः । आश्ववतानाः । श्यामाकाः । श्यापर्णाः । केचित् तु मठर राजमाऽवतानाऽश्वश्याम्याकशब्दानपि गोपवनादिषु पठन्ति । माठरा इत्यादि । श्यापर्णान्तग्रहणं किम् ? हारितः, 30 हारितौ, हरिताः । गोपवनादिग्रहणं किम् ? धैनषः, धैनवो, धेनवः । बहुवित्येव १ गार्ग्यः । बैदः । बैदस्य वैदयोsपस्यानि बिदा इत्यत्र त्वित्रिलुप्ते ऽञन्तं बहुष्विति लुप् । बिदानामपत्यं वैदः, बैदौ इत्यत्र त्वित्रि 35 लुप्तेऽयन्तं न बहुष्विति लुप् न भवति । इनप्रत्ययविषयेऽप्यत्रो लुप् न भवति, प्राजितीये स्वरे ' [ ६.१.१३५.] इति प्रतिषेधात् बिदानामपत्यं बहवो माणवका बिदा इत्यत्र
4
न
।
९५
चान्तं बहुष्विति भवत्येव । कश्यपप्रतिकृतयः काश्यपा इत्यत्र यद्यपि प्रत्ययो गौत्र उत्पन्न - 40 स्तथापि तदन्तं नेदानीं गोत्रबहुत्वे क तहिं प्रतिकृतिष्विति लुप् न भवति । अस्त्रियामित्येष ? गार्ग्यः, बैधः श्रियः । पञ्चभिर्गार्गीभिः क्रीतः पञ्चगर्गः, दशगर्गः पट इत्यत्र त्विकणां लुपः पित्त्यात् पुंवद्भावेन श्रीत्वनिवृत्तेर्लुप् । गोत्र 45 इत्येष ? औत्साश्छात्राः उत्सादेरञ् । पौनर्भवाः । पौत्राः । दौहित्राः । नानान्द्राः, 'पुनर्भू-पुत्र- दुहितृननान्दुरनन्तरेऽञ्' [६.१.३९. ] | पारशवाः, परखियाः परशुश्चासावण्यै' [६.१.४०.] इत्यञ् । कथं प्रियो गायों, गाग्यौ वा येषां ते प्रिय- 50 गाय इति । अत्र हि यत्रन्तस्य बहुत्वविषयत्वाद लुप् प्राप्नोति, नैवम्, न यत्रन्तं बहुषु किं तर्हि समासः । स 'प्रत्ययः प्रकृत्यादेः ' [ ७.४. ११५.] इति नियमाद् यजन्तो न भवतीति लुप् न भवति । प्रिया गर्गा यस्य स प्रियगर्ग 55 इत्यत्र तु यजन्तस्य बहुत्वाद् भवत्येव ॥ १२६ ॥
6
श० भ० न्यासानुसन्धानम् - यत्रत्रो० । गोत्रे ' बहुष्वस्त्रियाम्” [६.१.१२४.] इति पूर्वतोऽनुखतम् । विशेषणम्, बहुष्वित्यपि तस्यैवेति सूत्रार्थ तथैव वर्णयति 60 गोत्रे इति वर्तमान क्रियाद्वारा यञन्तस्यान्तस्य च यन्तस्यान्तस्य च बहुत्वविशिष्टेऽर्थे वर्तमानस्येत्यादिना । गोपवनादय इह पर्युदासत्वेन विवक्षिताः, ते च न सर्वेऽपि तु श्यापर्णान्ता एव । तथा च गोपवनादिगणान्तर्गतान् श्यापर्णान्तान् वर्जयित्वा शिष्टेभ्यस्तद्वणपठितेभ्योऽप्ययं विधिरिति । तत्र गोपवनादयः क पठिता 65 इत्याशङ्कायामाह – गोपवनादिबिंदायन्तर्गण इति । बिदादिगणान्तर्गता एव ते इति भावः ।
उदाहरति — गार्ग्यः, गाग्यौं, गर्गाः इति । अत्र बहुवचनान्तमेवैतत् सूत्रलक्ष्यम्, तथापि प्रत्ययस्वरूपप्रदर्शनाय एकवचन द्विवचनयोरपि प्रदर्शनम् । गर्गाः 70 वत्सा इत्यनयोर्यत्रो लुर । बिदा इत्यादिष्वञः । गर्गस्य वृद्धाफ्त्यानां प्राचुर्यमित्यर्थे मयटि गर्गमयम् । गर्गस्य वृद्धापत्येभ्य आगतम् इत्यर्थे । रूप्यप्रत्यये गर्गरूप्यमिति । अत्र तद्वितप्रत्ययान्तरे विवक्षितेऽपि बहुत्वमन्तर्भूतमादाय
लुबू भवति ।
पदकृत्यं पृच्छति - अश्यापर्णान्तगोपवनादेरिति
" Aho Shrutgyanam"
75