________________
२३३
२३४
योगदृष्टिसंग्रह
परिशिष्ट-१ पदार्थसंकलन ५३ दीप्रादृष्टिविचारः । ५४ प्राणायामेन सहितो योगः । ५५ नात्र उत्थानदोषः । ५६ धर्मेक्रियेतरविषयाऽनवगाहिमनसा प्रवृत्तिरत्र । ५७ तत्त्वानां श्रवणमपि चाऽत्र सम्भवति । ५८ अवेद्यसंवेद्यपदवत्त्वान्नेह सूक्ष्मो बोधः । ५९ प्राणायाम इति त्रिप्रकारा श्वासकिया । ६० बहिर्गतिः श्वासः रेचकः प्राणायामः । ६१ अन्तर्गतिः श्वासः पूरकः प्राणायामः । ६३ अन्तर्वृत्तिस्तु श्वास: कुंभक: प्राणायामः । ६४ दीर्घसूक्ष्मसंज्ञोऽयं श्वासानां दीर्घत्वसूक्ष्मत्वादिकृतेः । ६५ बाह्याभ्यन्तरविषयः चतुर्थोऽपि प्राणायामः । ६६ अत्र कुम्भकवद् वायुनिरोध एव । केवलं विषयपर्यालोचनपूर्वकत्वेन सोऽयं
विशिष्टः । ६७ प्राणायामेन स्थिरीकृतं चित्तं नियतदेशे सुखंसुखेन धार्यते । ६८ ज्ञानावरणक्षयजनितोऽयं प्रभावः । ६९ जैनशास्त्रेषु श्वासावरोधरुपोऽयं निषिद्धः । ७० पुरुषविशेषे योग्यताविशेषात् तच्चित्तोत्साहवृद्धिलाभे तु क्वचिद् न निषिद्धः । ७१ मोहजनितममतादिभावानां रेचनाद् रेचकः ।
मोहक्षय-क्षयोपशमजनितविवेकादिभावानां पूरणात् पूरणः । ७३ निश्चितार्थानां स्थिरीकरणात् कुम्भकः ।
भावप्राणायामानामयर्थः । ७५ भावप्राणायामेनैव धर्मदृढत्वम् । ७६ प्राणादपि धर्मो महान्, धर्मार्थं त्यजामि प्राणान्, न प्राणार्थ धर्ममिति निश्चयो
भवति प्राणायामेन । ७७ तत्त्वश्रवणेन पुण्यबीजमस्य वृद्धि याति । ७८ तत्त्वश्रवणाद् गुरुभक्तिरुत्कट लभ्यते ।। ७९ तेन गुरुभक्तिप्रभावेन तीर्थकराणां ध्यानजस्पर्शनाद्वारा दर्शनं लभ्यते । ८० अत्र वेद्यसंवेद्यवन्न सूक्ष्मबोधः ।
८१ वेद्यसंवेद्यपदं कर्मवज्रविभेदेन, अनन्तगोचरवस्तुनो यथावस्थितबोधः । ८२ अस्य सूक्ष्मत्वं दीप्रायां नोपलभ्यते । ८३ कर्मणां तथाविधक्षयोपशमाद्यभावात् । ८४ आद्यासु चतसृषु दृष्टिषु अवेद्यसंवेद्यपदम् अधिकमेवाऽऽस्ते । ८५ आसु बोधो यः शुभो वर्तते, स जलेषु प्रतिबिंबमालोक्य जलचराणां प्रवृत्तिरिख न
तात्त्विकः । ८६ आसु दृष्टिषु तात्त्विकं वेद्यसंवेद्यपदं नास्ति, परंतु अतात्त्विकं तु वर्तते । ८७ ग्रन्थिभेदजनितो रुचिविशेषो वेद्यसंवेद्यपदम् । ८८ हेयोपादेयादिविवेकज्ञानं वेद्यसंवेद्यता । ८९ आशयरुपमिदं पदं, योग्यतामात्रेण माषतुषादावपि सम्भवति । ९० मित्रादिषु योग्यता वर्तते परं नात्र ग्रन्थिभेद इति विशेषः । ९१ अपायहेतूनामासेवनादुपार्जितैकर्मलिः सज्ज्ञानस्याऽवरोधो भवति तेन विनिपातः । ९२ तदेतद् वेद्यसंवेद्यपदे न भवेत् । ९३ तद्वतो दुर्गतावपि मानसिकी अप्रीतिर्नास्ति । ९४ सद्दर्शनपतितानामनन्तसंसारिणां वेद्यसंवेद्यपदं निश्चयेन नास्ति । ९५ यदि क्षायिकसम्यग्दर्शनं स्यात्तर्हि दुर्गतावपि श्रेणिकवत् तप्तलोहपदन्यासतुल्या
पापप्रवृत्तिः । ९६ तदभावे वेद्यसंवेद्यपदाभाव एव । ९७ अपायशक्तिः बोधस्थूलत्वजननी अवेद्यसंवेद्यपदे वर्तत एव । ९८ वेद्यसंवेद्यपदाभावादेव तस्य शुभप्रवृत्तेरपि पुण्यबन्धः अपायोत्तरो भवति । ९९ विघ्नानामापातो भवत्येवेति भावः । १०० अवेद्यसंवेद्यपदवतः पुण्यं पापानुबन्धी भवतीति । १०१ अवेद्यसंवेद्यपदे योगप्रवृत्तिः दृश्यते साऽपि मोहगर्भा । १०२ मोहगर्भो हि वैराग्यो सद्गुरुपारतन्त्र्यस्य अभावमेव निर्दिशति । १०३ तेन तस्याः अपायजनकत्वम् ।। १०४ मोहमूलत्वादेव च योगप्रवृत्तिरत्र न किञ्चित्करी । १०५ भवाभिनन्दिनां ग्रन्थिभेदाभावान् न वेद्यसंवेद्यपदम् । १०६ तदभावे च तेषां पुण्यं निरनुबन्धम्, पापानुबन्धि वा । १०७ ग्रन्थिभेद एव सानुबन्धत्वनियामकः ।