________________
परिशिष्ट-१ पदार्थसंकलन
मैत्र्यादिभावैर्मन:शोधनमाभ्यन्तरः शौचः । १० संतोष: तुष्टिः । ११ स्वाध्यायः प्रणवादिमंत्रजापः । १२ तपो नानाविधः । १३ देवताप्रणिधानं सर्वप्रवृत्तीनामिश्वरसमर्पणम् । १४ अथ नियमजाः लाभाः । १५ शौचभावनया
+ अशुचित्वेन निजशरीरपर्यालोचनाद् देहे जुगुप्सा भवति । + अन्यदेहैस्संपर्को न बध्यते । + सत्वगुणस्यान्त:प्रकाशमयस्य शुद्धिः + रजस्तमोभ्यां नोपद्रवः । + मानसो हर्षभावः, खेदवैधुर्यम् । + स्थैर्य चेतसो नियते विषये। + इन्द्रियाणां विजयः, विषयवैमुख्येनाऽऽत्मस्थता ।
+ आत्मदर्शनस्य पात्रता च । १६ संतोषभावनया बाह्यविषय-अतिशायी परमसुखम् । १७ स्वाध्यायाद् निजेष्टदेवताया दर्शनम् । १८ तपसा कायेषु, इन्द्रियेषु च सिद्धिः । १९ सिद्धिरियमणुमहदादिदर्शने, सूक्ष्मव्यवहितादिदर्शने सामर्थ्यरूपा । २० ईश्वरप्रणिधानात् समाधिः । २१ अन्तरायरूपाणां क्लेशानां नाशेन समाधिसंवेदनम् । २२ तप:स्वाध्यायेश्वरप्रणिधानानां शोभनाध्यवसायलक्षणत्वात्, ततः क्लेशप्रतिबन्धेन
समाधिजनकत्वम् । २३ एवंविधान् नियमान् अवगम्य, तान् योगोपकारकान् चाकलय्य, एतेषु इच्छादिकेषु
रतो भवति । २४ अत्र अविरता योगकथाप्रीतिः, भावयोगिषु स्वशक्ति-अनुसारेण भक्ति-उपचारः,
तेष्वेव च अभ्युत्थानादिबहुमानः । २५ अयं हि शुद्धपक्षपातः, तत्पुण्येन योगवृद्धिः, लाभाभिवृद्धिः, शिष्टसंमतत्वम्,
शुद्धोपद्रवादिहानिः भवति ।
२३२
योगदृष्टिसंग्रह २६ अशुभप्रवृत्तिर्नास्ति ततो भवभयं तीव्र न । २७ सर्वत्रैव धर्मादराद् न पुण्यक्रिया हीयते । २८ अनाभोगादपि साधुजननिन्दादिप्रमुखाऽनुचितक्रिया न सम्भवति । २९ स्वनिर्धारिते धर्मकृत्ये क्षतिसमापाते निजं विराधकं मत्वाऽसौ परितापमनुभवति । ३० स्वभूमिकापेक्षयोत्कृष्टे आचार्यादिषु शुद्धक्रियाप्रवृत्तेषु स्पृहाबद्धा जिज्ञासा भवति
यदुत कथमेते इत्थमुत्तमविधौ प्रवर्तन्ते । ३१ संसारपारैषिणां नानाप्रवृत्तिषु प्रकर्षेण जिज्ञासाभावः । ३२ बहुविस्तारः शास्त्रभोगः, न तस्मिन्नस्माकं प्रज्ञा समर्था । ३३ वयं तु शास्त्राराधननिष्ठानां शिष्टानामेव अनुसरणं प्रकुर्मः इत्यत्राऽसौ मन्यते । ३४ बलादृष्टिविचारः ।। ३५ सुखासनेन सहितो योगः । ३६ यद् आसनम् आश्रियते तस्मिन् स्थिरता, निष्कम्पता च भवति । ३७ दर्शनमपि दृढं भवति । ३८ काष्ठाग्निकणेन समानमिति स्थितिवीर्येषु विशेषः । ३९ योगक्रियासु क्षेपो नास्ति । ४० अधिकृतधर्मकर्मणि समादरो वर्तते तेन मनसः स्थैर्यमपि तस्मिन्नेव भवतीति
क्षेपदोषो न भवति । ४२ क्षेपे हि प्रकृतानुष्ठानादन्यत्र मनोधावनम् । ४३ तदभावे प्रकृतानुष्ठाने मनोरमणम् । ४४ असत्तृष्णायाः त्वरायाश्च अभावेन आसनं स्थिरं भवति । ४५ आकाशादिसमापत्तिवशाद् आसनविजयो विनाक्लेशं भवति । ४६ अन्तरायाणां विजय: स्यात् ४७ द्वंद्वरूपसगैर्दु:खाऽप्राप्तिर्भवति । ४८ मनःस्थितिजक्लेशाहीनां परिहारः प्रणिधानपूर्वको भवति । ४९ प्रणिधानपूर्वे दोषत्यागे दोषाणां न पुनरुत्पादः । ५० श्रवणेच्छाऽस्य यूनः कान्तासहितस्य संगीतकलाकुशलस्य गीतश्रवणप्रीतिसमा । ५१ यदि शुश्रूषा नास्ति तर्हि श्रवणं व्यर्थम् । यदि शषा वर्तते तर्हि श्रुताभावेऽपि
कर्मक्षयः । ५२ योगसाधनेषु कौशलमत्र भवति ।