________________
परिशिष्ट-१ पदार्थसंकलन
योगदृष्टिसंग्रह
३९ विषयान्तरव्यवधानमत्र नास्ति । ४० सूक्ष्मज्ञानसमालोचनसहितञ्चेदम् । ४१ ध्याने च खेदादिदोषाष्टकवित्रासो न स्यात् । ४२ खेदः, उद्वेगः, भ्रमः, उत्थानम्, क्षेपः, आसंगः, अन्यमुद्, रूग् इत्यष्टौ दोषाः । ४३ प्रवृत्तिजनितो मानसदु:खानुबन्धी प्रयासः खेदः । ४४ एतेन प्रणिधाने एकाग्रता न भवति । ४५ प्रवृत्तिविरतस्य योगद्वेषजनितः मनोभाव उद्वेगः । ४६ अनादरभाव एवासौ । ४७ तेन शुभक्रियासु मान्द्यम् । ४८ एतेनागामिजन्मसु योगिकुलानामस्याप्राप्तिः । ४९ कृतायामपि क्रियायां कृताकृतसंशयो भ्रमः । ५० क्रियाजनितं संस्काराधानमेतेन न भवति ।
संस्कारवैकल्ये च निष्फलता, अनिष्टफलता वा । ५२ ईतरविषयोपशमवद् धर्मकरणविषयमेव चितं प्रशान्तवाहि । ५३ तदभावेऽप्रशान्तवाहितादोषः । स एवोत्थानम् । ५४ तेन कियाजनितशुभाध्यवसायलाभो न भवेद् । ५५ शुभक्रियाऽत्र केवलं लोकापवादादिभयेन । ५६ उपादेयत्वभावेऽपि नास्य भवति विशेषविपाकः । ५७ क्षेप इति अधिकृतादन्यकर्मणि मनोधावनम् । ५८ क्षेपोऽयं योगकरणकाल एव प्रवर्तते । ५९ एतेन फलविरहो भवति । ६० असकृदुत्पाटितशालिवत् फलजननसामर्थ्यनाशात् । ६१ आसङ्ग इति अधिकृतक्रियास्थान एव समासक्तिः । ६२ एतेनोत्तरक्रियास्थानलाभो न स्याद् । ६३ उत्तरोत्तरगुणप्राप्तिप्रधानं हि शासनम् । ६४ तदभावेनासङ्गे गौतमादिवद्दोषः । ६५ अन्यमुद् इति अधिकृतक्रियातोऽन्यक्रियायां रागः । ६६ अधिकृतक्रियायामत्र रागाभावः । ६७ आदरविकलाराधनेन च क्रियावैयर्थ्यम् ।
६८ रूग् इति प्रकृते शङ्का पीडानुभवो भङ्गो वा । ६९ एतेनानुष्ठानोच्छेदः । ७० क्रियमाणमवि तत् बलात्कारनिहितमितिव्यर्थम् । ७१ ध्याने सर्वेषाममीषां दोघाणां विलयः । ७२ ध्याता दोषाभावेन शान्त उदातश्च भवति । ७३ तद्ध्यानं तस्यैवायतिहितम् ।
ध्यानस्य फलं तु- सर्वकार्यवशिता, अध्यवसायानां स्थैर्य भवान्तरपरम्परा-मूलकर्मणां
च व्यवच्छेद इति । ७५ लोकव्यवहाराद् इष्टानिष्टतया प्रसिद्धेषु वस्तुषु विवेकबोधाद् यथास्थितदृष्ट्या
निभालनम् इति समतायोगः । ७६ इदं ममेष्टम्, इदं नेष्टम् इति मनोभाववैकल्यं समता । ७७ ध्यानादियं भवेद्, इतश्च ध्यानम् । ७८ मिथोऽनुग्रहकारित्वमेतयोः, नान्योऽन्याश्रयदोषोऽत्र । ७९ परस्परं स्वस्थानादुत्कर्षगुणलाभजनकत्वाद, एकतराभावेऽन्यतराभाव इत्यपि वाच्यते । ८० अत्रामौषधिप्रमुखऋद्धिलाभेऽपि तस्योपयोगो नास्ति । सकलबाह्यभावाशंसा
निवृत्ते । ८१ ज्ञानदर्शनयथाख्यातचारित्रावरणकारणानां कर्मणां क्षयोऽपि समताफलम् । ८२ सकलेच्छाभावव्युपरमश्चापि समताफलम् । ८३ मनःशरीरद्रव्यसंयोगजनितानां विकल्पानां वृत्तिनामप्रसिद्धानां समूलकाषं विनाशः,
वृत्तिसंक्षयः । केवलज्ञानलाभकाले, मनोविकल्पानाम्, अयोगिकेवलित्वकाले शरीरविकल्पानां क्षयः ।
अध्यात्मादियोगपञ्चकविचार: पूर्णः । ८६ वृत्तिरोधो योग इति लक्षणोऽपि योगः पञ्चधा । ८७ मनोव्यापाररुपा वृत्तिः ।। ८८ तस्याः प्रथमाभ्यासः प्रवृत्तिः । ८९ तस्याः उत्कर्षकाष्ठाप्राप्तिः स्थिरता । ९० इदमेव मनोगुप्तित्रयम् । ९१ अध्यात्मादिचतुष्टयं प्रथमाभ्यासो योगस्य ।