________________
२१४
योगदृष्टिसंग्रह
परिशिष्ट-१
पदार्थसंकलन
योगभेदद्वात्रिंशिका
योगः पञ्चधा ।
अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयश्चेति । ३ औचित्यवत्त्वे सति, देशाद्यन्यतमचारित्रवत्त्वे सति, वचनानुसारिचिन्तनवत्त्वे सति,
मैत्री-करूणा-मुदिता-उपेक्षाभावनावत्त्वम् अध्यात्मलक्षणम् । ४ मैत्रीति सुखचिन्ता ।
उपकारिणः, स्वकीयस्य, स्वप्रतिपन्नस्य, सम्बन्धनिरपेक्षस्य सर्वस्य चेति चतुर्विषया सुखचिन्ता मैत्री ।
करूणेति दु:खनिवारणेच्छा ।। ७ सा मोहात्, दुःखितदर्शनात्, संवेगात्, स्वभावाच्च भवति । ८ तत्र मोहादिति ग्लानस्य शास्त्रं याचमानस्य तदपथ्यवस्तुप्रदानाभिलाषः । एवंविध
दानेन क्षणिकहर्षलाभेऽपि याचमानस्य पुनरपि दु:खानुभव एव स्यादिति मोहः । ९ दुःखितदर्शनमात्रेण तस्य वस्त्रादिसामग्रीप्रदानेच्छा स्वयंगम्या । १० संवेगादिति मोक्षाभिलाषेण भवभयसमुत्पादनेछा सुखितेषु दुःखितेषु वा प्रीति
मत्सु । ११ स्वभावादिति प्रकृष्टसाधकानां महामुनिवराणां सर्वजीवेषु या भवनिस्तारणेच्छा। १२ अत्र प्रथमद्वितीययोर्दुःखितविषयत्वम्, तृतीयायाः प्रीतिमद्विषयत्वम्, चरमायाः
सर्वविषयत्वम् । १३ मुदितेति परितोषभावः । १४ सा आपातरम्ये, सद्धेतौ, अनुबन्धयुते, परे चेति चतुर्धा । १५ परिणामरौद्रे आपातरम्ये वैषयिके सुखे परितोषभावः प्रथमा । १६ परिणामरम्ये आपातसुखे वैषयिके सुखे परितोषभावो द्वितीया ।
१७ इहपरभवकल्याणकारणे परितोषभावः तृतीया । १८ मोहक्षयादिसम्भवे निराबाधे परितोषभावश्चतुर्थी । १९ उपेक्षेति मध्यस्थतानुभवः । २० करूणा, अनुबन्धः निर्वेदः, तत्वचिन्तनञ्चेति चत्वारस्तस्य संवेदप्रकाराः । २१ करुणा हि निजाहितेऽपथ्ये प्रवृत्तस्य तन्निवारणमपसार्य केवलामुपेक्षां जनयति ।
निवारणोपदेशस्य वैयर्थ्यावगतः । २२ अनुबन्धस्यालोचनात् कालातिक्रमवर्तिनः पुरुषविशेषस्यालस्यादिकत्यागोपदेशमवधीर्य
मध्यस्थभावोऽवलंब्यते । (अर्थार्जनेऽलसं यथा दयादृष्ट्या पश्यन्ति) २३ निर्वेदेन च भवविरागबद्धहृदयस्य सकलजनमोहकरेऽपि पदार्थसार्थे सत्त्वातिशयाद्
उपेक्षाभावः । २४ तत्त्वचिन्तनेन च-यथावस्थितविश्वपदार्थस्य रागद्वेषादिजनकत्वं नास्ति, मोहनीयादि
कर्मणामेव रागादिजनकत्वं वर्तते-इत्यवगत्या सर्वत्रैव माध्यस्थ्यभावः । २५ इति मैत्र्यादिभावनाविचारः।। २६ अत्राध्यात्मलक्षणेषु औचित्यादिलक्षणत्रयमवगण्य केवलं मैत्र्यादिभावस्य चतुर्थ
लक्षणरूपस्य विचारः कृत इति विशेषः । २७ सुखीषु ईर्षाभावम्, दुःखिषु उपेक्षाभावम्, पुण्यकार्येषु परकृतेषु द्वेषभावम्, अधर्मिषु
च रागद्वेषौ परिहरन् अध्यात्म लभते । २८ योगारम्भकाणामेवायमुपदेशः। २९ निष्पन्नयोगानां तु मैत्र्यादितः परं परार्थसारं चित्तं सद्बोधमयम् । ३० अध्यात्मेन हि भवति ज्ञानावरणादिकर्मविलयः, स्वपराक्रमप्रकर्षः, चित्तसमाधिः
वस्तुतत्त्वावगमस्थिरो जीवः । ३१ अध्यात्ममेव स्वसंवेदनलभ्यममृतम् । ३२ अध्यात्मादेव मोहविषसमुत्तार इति । ३३ अध्यात्मस्यैव ज्ञानसंयुतः, पुन:पुनरभ्यासो भावना । ३४ कामक्रोधादिभ्यो विरामः, शुभभावप्रकर्षश्च भावनाया फलम् । ३५ ज्ञानभावना, दर्शनभावना, चारित्रभावना, तपोभावना, वैराग्यभावनेति तभेदाः । ३६ आभिरतिशयः संस्कारबन्धः । ३७ ध्यानं तु प्रशस्तैकविषयो बोधः । ३८ स्थिरप्रदीपवद् धारानुबद्धज्ञानेऽस्य संभवः ।