________________
८०
कारणत्रयतश्च स्युः प्रतिभावाः शुभा अपि । कर्ममान्द्यात् प्रयत्नेन चेतसः सन्निमित्ततः ॥७॥
निमित्ताद्धि शुभाद्भोगी भावमप्यशुभं भजेत् । अशुभाद्योगिनां भावा प्रजायन्ते शुभा अपि ॥८॥
योग्यतामनुसृत्यैवं जायन्ते प्रतिभावनाः । आर्द्रासु मृत्स्वपि बीजे प्ररोहः स्वगुणाश्रयः ॥९॥
निमित्तानां शुभानां वाऽशुभानामुपकर्तृता । मुख्यतां नादधात्यत्र मता कर्मोदयस्य सा ॥१०॥
कर्ममान्द्याय कर्तव्यः प्रयत्नः प्रथमो महान् । किं कुर्वन्ति निमित्तानि सत्सु मन्देषु कर्मसु ॥११॥
चेतसः शुभयत्नेन मन्दत्वं कर्मणां भवेत् । निमित्तैरुत्तमैः प्रायः शुभत्वं चेतसो भवेत् ॥१२॥
श्रीसंवेगरतिः