________________
ममाऽऽत्मा रक्षणीयोऽस्ति मयैव मम चिन्तनैः । अहं हि तारको मे स्यां नाहं स्यां मम मारकः ॥६१॥
मामहं देहरूपेण पश्यामि स भ्रमो मम । मामहमात्मरूपेण पश्येयं तत् सुखं भवेत् ॥६२॥
इयत्ता मम शक्तीनां वर्तते नैव काचन । विस्मृत्य ता अहं मुग्धो लग्नः पामरसंगतौ ॥६३॥
आत्मगौरवविस्मारा-न्नान्याऽस्ति काऽपि मर्खता । आत्मगौरवबोधाच्च नान्या काचन वैदुषी ॥६४॥
क्वास्मि कुत्र च गंतव्यं कर्तव्यं किं करोमि किम् । किं प्राप्तं प्रापणीयं किं किं त्यक्तं त्याज्यमस्ति किम् ? ॥६५॥
शक्तयो मयि वर्तन्ते पालनीया मयैव ताः । कुर्वे तासामुपेक्षां चेत् तदा शत्रुर्ममाऽस्म्यहम् ॥६६॥
श्रीसंवेगरतिः