________________
सर्वार्थदर्शिना दिष्टे तत्त्वे चिन्तनयोगतः । परिवर्तनमापन्नः कथं केनापि दूयते ॥५५॥
भगवद्वचसो दूर-स्थितो मूढोऽविचारकः । परिवर्तनशून्यत्वाद् नूनं केनापि दूयते ॥५६॥
अद्याहं यत्स्वरूपोऽस्मि नार्हति तन् ममात्मनः । इत्थमाशयवान् कुर्यात् प्रथमं स्वपरीक्षणम् ॥५७॥
नाहं देहस्वरूपोऽस्मि क्षुधारोगादिभाजनम् । अहं तु सिद्धरूपोऽस्मि शुद्धसौख्यस्य भाजनम् ॥५८॥
स्वतंत्रं मम सामर्थ्य जीवनेऽनुभवेऽपि च । अद्य तत् कर्मबद्धत्वाद् देहाधीनं प्रवर्तते ॥५९॥
रागद्वेषवशीभूतः कषायकलुषाशयः । विषयासक्तचित्तोऽहं कर्मबद्धोऽस्मि सर्वथा ॥६०॥
श्रीसंवेगरतिः