________________
५८
दुःखानां परिहारार्थं कर्मणां वृद्धिकारिणाम् । अभिप्रायादिकं जित्वा सौख्यमुत्तममर्जयेत् ॥४९॥
बाह्यानां नैव केषाञ्चित् संयोगानां विवर्तनम् । कर्तुं शक्यं तथात्वे तु विश्वं स्यादव्यवस्थितम् ॥५०॥
अनिष्टं यदपि प्राप्तं तत् पापोदयसंभवम् । कथंकारं भवेदत्र पापानां परिवर्तनम् ॥५१॥
कर्मणां संक्रमोऽप्यस्ति महाग्रन्थेषु दर्शितः । अस्मदादिकजीवानां संक्रमोऽयं कथं भवेत् ॥५२॥
पदार्थानां मनुष्याणां स्वभावैरपि वेदनाः । जायन्ते तत्र किं तेषां शक्याऽस्ति परिवर्तना ॥५३॥
सर्वेषामेव सर्वत्र स्थितानां परिवर्तने ।
गौरवं, लाघवं तु स्याद् आत्मनः परिवर्तने ॥५४॥
श्रीसंवेगरतिः