________________
आयातप्रतिकारार्थं नाल्पयत्नो भवाम्यहम् । इत्यर्थघटनापन्नो जीवस्स्यात् प्रतिभाववान् ॥३१॥
मतिज्ञानस्वरूपेण संज्ञाऽस्ति दीर्घकालिकी । संटंकोऽत्र भवत्यस्यास्सुखदुःखसमाश्रितः ॥३२॥
अल्पशब्दाद् यथा सूत्राद् वृत्तिकारा महर्षयः । महार्थघटनां नव्यां योजयन्ति विशारदाः ॥३३॥
यथालब्धात् तथा जीवो विषयात् कर्मणाऽऽतुरः । घटयन् चेतसो भावान् भवभ्रमणभाग् भवेत् ॥३४॥
अर्थो ह्यध्यवसायोऽस्ति घटयन् तं ह्यनेकधा । यान् यान् भावानुपेयात्तान् प्रतिभावान् विजानत ॥३५॥
अनुकूलत्वधीश्चित्ते प्रतिकूलत्वधीरपि । वर्तते साऽस्त्यभिप्रायो विषयासंगनिर्मितः ॥३६॥
श्रीसंवेगरतिः