________________
समानेऽनुभवेऽप्यत्र न स्वातंत्र्यं विहन्यते । समानमपि सर्वेषां स्वतंत्रं चक्षुरादिकम् ॥१९॥
विषयग्रहणाज्जीवो न तथा बाध्यते बह । यथाऽभिप्रायनिर्माणान्मोहनीयप्रवर्तितात् ॥२०॥
तथापि मोहनीयस्य विक्षोभस्याऽस्ति कारणम् । विषयग्रहणं तेन बाधा तेनापि गण्यते ॥२१॥
इच्छासंचारितो जीवो विषयेषु प्रवर्तते । तस्मादेव मतं दुष्टं विषयग्रहणं सदा ॥२२॥
केवलज्ञानिनां देहै: पञ्चेन्द्रियमनोहराः । विषया योगमायाता नाभिप्रायप्रवर्तकाः ॥२३॥
सुष्ठत्वं वाऽपि दुष्टत्वं नैतेषां प्रतिभासते । तेषामिन्द्रियवेद्यत्वं ज्ञानेनैतैर्विलोक्यते ॥२४॥
श्रीसंवेगरतिः