________________
ज्ञातव्ये ज्ञातवत्यत्र मोहनीयं प्रवर्तते । ततोऽभिप्रायनिर्माणं संवित्त्यात्मकमुत्कटम् ॥१३॥
अनुकूलं ममाऽस्त्येतद् नानुकूलं ममास्त्यदः । इत्थं सकर्मजीवस्य जायते ऽन्यतमं मनः ॥१४॥
अभिप्रायोऽस्ति जीवस्थो न चायं विषयस्थितः । विषयादेव संजातो विषयात् स विभिद्यते ॥१५॥
यथा पटावृता दृष्टि-र्जायेतान्धत्वभाजनम् । अन्धत्वं न पटे किन्तु पटादेवोपपद्यते ॥१६॥
तथा विषयसम्पर्का-दभिप्रायेण विह्वलः । जीवस्स्याद्विषयेष्वत्र तथापि नास्ति चेतना ॥१७॥
स्त्र्यादिविषयसम्पर्को यद्यप्यस्ति सचेतनः । अभिप्रायस्स्वकीयस्तु नान्यस्मिन्ननुभूयते ॥१८॥
श्रीसंवेगरतिः