________________
४४
द्रव्यपर्यवतः पूर्णं नेन्द्रियैरवगम्यते । तथात्वे केवलज्ञानेऽतिप्रसंगो भवेत् खलु ॥७॥
अप्रत्यक्षस्थितस्यापि ग्रहणं नैव संभवेत् । साक्षात् संपर्कमायातं गृह्यतेऽदूरवर्ति च ॥८॥
द्रव्यं यावद्गुणं प्राप्तं बोधस्तावद्गुणो भवेत् । भवेदल्पगुणो बोधो नातिबोध: कदाचन ॥ ९ ॥
भित्त्यादिर्जडसामग्री नास्ति बोधाय सक्षमा । ज्ञानं हि चेतनाजन्यं जीवस्यैव प्रजायते ॥ १०॥
शब्दानामर्थसंकेतः श्रुतज्ञानेन गम्यते । वातावरणतो जन्म-जाताद् व्याकरणादिकैः ॥११॥
नैतदर्हा जडास्सन्ति ग्राहकत्ववियोगतः । मतिज्ञाने श्रुतज्ञानेऽयं तावद्विषयग्रहः ॥१२॥
श्रीसंवेगरतिः